________________ काव्यमाला। शूलं वासुररक्तबिन्दुनिचितं गृह्णातु शूलायुधो धृष्टद्युम्नमहं निहन्मि समरे कश्चित्परित्रायताम् // 366 // रत्युपचारप्रधानो धीरललितो यथा'आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरा स्तेन खाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः / मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि चित्रपटके का वा त्वदन्या मया // 367 // ' उपशमप्रधानो धीरप्रशान्तो यथा'कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् / प्रकृतिसुभगा ह्येते भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः / / 368 // विसँब्धोदारकर्मा धीरोदात्तः / स यथा'कपोले जानक्याः करिकलभदन्तद्युतिमुषि ___ स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् / मुहुः पश्यशृण्वव्रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः / / 369 // कैतवप्रधानः शठो यथा'दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने निभील्य विहितक्रीडानुबन्धच्छकः / 1. 'शूलं चासुर' ख. 2. 'चित्रफलके' क., 'चित्तफलके' स. 3. 'धीरशान्तो' घ. 4. 'ह्यन्ते' ख. 5. 'नवाङ्कुशाः' क.ख. 6. विश्रपोदारकर्मा' क., 'विलब्धदारकर्मा' ख.