________________ 662 काव्यमाला / र्थयोः संबन्धावधारणम् / अन्यथासिद्धौ चेमौ। तथा हि यत्र बृंहितं हीयते, हेषितमुपजायते, रेणुचक्रमन्वयि; तत्र हस्तिनो हीयन्ते, अश्वा उपजायन्ते, पिपीलिका अन्वयिन्यः / न चैतावता रेणुचक्रादिपिपीलिकाः कारणं भवति / यत्र वा क्षीरं हीयते, दध्युपजायते, पात्रमन्वयि, तत्र माधुर्य हीयते, अम्लतोपजायते, तृप्तिरन्वयिनी / न चैतावता पात्रस्य तृप्तिः कार्य भवति / अवधृतं हि सामर्थ्यमन्वयव्यतिरेकाभ्यां प्रविभज्यते / यथा लोके बधिरोऽपि चक्षुष्मानालोकयति, सत्यपि श्रोत्र उपहतचक्षुर्नालोकयति रूपमित्यन्वयव्यतिरेकाभ्यां चक्षुःश्रोत्रसंनिधाने रूपालोकनं चक्षुष एवं व्यवस्थाप्यते न श्रोत्रस्य / * यस्य केवलस्य योऽर्थोऽवधृतः पदार्थान्तरसंनिधानेऽपि तस्य स एव / नहि रसनमसंनिधौ दर्शनस्य मधुरादिव्यञ्जकं दर्शनसंनिधौ नीलादिव्यक्ति प्रति सामर्थ्यं लभते / प्रथमानुरागशब्दस्य केवलस्योत्कण्ठादिषु, मानशब्दस्यायितादिषु, अनन्तरशब्दस्य पुनरवधिमत्स्वेव सामर्थ्यमवधृतमतस्तेषां तावानेवार्थो भवति / यः पुनः पदयोरन्योन्योपश्लेषाद्विसम्भणादिर्मानशैथिल्यादिविधिमद्विशेषोऽन्यावधिकः प्रतीयते वाक्यार्थः स भवतीति / यदि वा यथानपेक्षितावयवार्था वृक्षश्रोत्रियशक्रगोपादयः खसामर्थ्यनियतमर्थमाचक्षते तथा संघाता एवैते प्रथमानुरागानन्तरादयो राजपुरुषादयश्वानपेक्षितावयवार्था यथासामर्थ्यमर्थेषु निविशन्ते / ननु चाव्यपदेश्यपूर्वापरविभागा भिन्नार्थाभिधायिनो वृक्षादयः प्रतीयमानभागभेदानुयाताः संबन्धिपदार्थोपहितभेदवृत्त्यभिधायिनः पुनरिमे तत्कथं प्रथमानुरागानन्तरादयो वृक्षादिवद् ढिशब्दा भवितुमर्हन्ति / तदसत् / रूढिशब्दा यौगिका इति विभागोऽभेददर्शनादर्शनाभ्यामभिनिविष्ट 1. 'भवन्ति' ख. 2, 'च' क.ख. 3. 'अभिन्नार्थाभिधायिनः' ग.घ. 4. 'अभिनिविशते' क.ख.