________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / प्रथमानुरागानन्तर इत्यादिषु च भेदसामर्थ्य यथा राज्ञो भृत्य इति / यतोऽनन्तर इत्युक्तेऽवधृतमिदं कस्याप्यवधेरनन्तरोऽयं न खतन्त्र इति सर्वोऽवधिः प्रसक्तः। प्रथमानुरागस्येत्युक्ते सर्वः संबन्धी प्रसक्तः / इहे. दानी प्रथमानुरागानन्तर इत्युक्ते प्रथमानुरागोऽनन्तरं निवर्तयत्यन्येभ्योऽवधिभ्यः / अनन्तरः प्रथमानुरागं निवर्तयत्यन्येभ्यः संबन्धिभ्यः / तत्र योऽसौ भेदस्तत्सामर्थ्य च, तन्निमित्ता च वृत्तिः / मेदनिमित्तायां च वृत्तौ सत्यां वृत्त्यभिमुखस्य भेदमुपजनय्योपसर्जनस्य प्रथमानुरागस्यार्थो निवर्तते। यस्यापि प्रधानस्यानन्तरस्यावधिमतो निवर्तते सोऽप्यवधिमवच्छिनत्ति / एवमुभयतो व्यवच्छेदे निर्मातेऽनन्तरविशेषे समुदायार्थे चान्यस्मिन्प्रादुर्भवति / यदि प्रथमानुरागाद्यर्थो निवर्तते, कामं निवर्तताम् , न जातुचिदवधिमन्मात्रस्य संप्रत्ययो भविष्यति / ननु चान्वयव्यतिरेकाभ्यां जहत्वार्थत्वं नोपपद्यते / तथा हि 'प्रथमानुरागानन्तरे' इत्युक्ते कश्चिच्छब्दः श्रूयते / प्रथमानुरागेत्यनन्तरेति च प्रतीयमानविभागः, अर्थोऽपि कश्चिद्गम्यते कन्याविनम्भणादिरवधिमत्त्वं च / 'मानानन्तरे' इत्युक्ते कश्चिच्छन्दभागो हीयते, कश्चिदुपजायते, कश्चिदन्वयी / प्रथमानुरागेति हीयते, मानेत्युपजायते, अतन्तर इत्यन्वयी। अर्थोऽपि कश्चिद्धीयते, कश्चिदुपजायते, कश्चिदन्वयी / कन्याविनम्भणादियिते, मानशैथिल्यादिरुपजायते, अवधिमत्त्वमन्वयि / तेन मन्यामहे यः शब्दभागों हीयते तस्यासावर्थः; योऽर्थो हीयते, य उपजायते तस्यायमों; योऽर्थ उपजायते, योऽन्वयी तस्यासावर्थो; योऽर्थः सोऽन्वयीति। मैवम् / यतोऽनन्यथासिद्धाभ्यामेवान्वयव्यतिरेकाभ्यां शब्दा. 1. 'जातु क्वचित्' क.ख. 2. 'मान्येति' ख. 3. 'अन्वयित्वेन' क.ख.