________________ 660 काव्यमाला। निवृत्तेऽपि खार्थे वासनावशात्करुणोऽनन्तरस्य विशेषणं भवति / अस्तु वा प्रथमानुरागादिष्वपि जहत्वार्थैव वृत्तिः / नन्वेवं राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति / नैष दोषः। वृत्तौ समर्थाधिकारः क्रियते / सामर्थ्य च भेदः संसर्ग उभयं वा / तत्र राज्ञ इत्युक्ते सर्वं खं प्रसक्तम् / पुरुष इत्युक्ते सर्वः खामी प्रसक्तः / इहेदानीं राजपुरुषमानयेत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः; पुरुषोऽपि राजानमन्येभ्यः खेभ्यः / एवमस्मिन्नुभयतो व्यवच्छिन्ने यदि राजार्थो निवर्तते, कामं निवर्तताम् / न जातुचित्पुरुषमात्रस्यानयनं भविष्यति / प्राक् च वृत्तेरकृतार्थस्य निवृत्तौ सामर्थ्याभावाद्वृत्तिरेव न स्यात् / वृत्तिनिमित्ता च निवृत्तिस्तस्माददोष इति / तत्र राज्ञः पुरुष इत्यत्र यदा तावदवधृतपरायत्तवृत्तिरयं पुरुषो न स्वतन्त्रस्तदा स्वामिसंसर्गस्यावगतत्वात्स्वामिवि. शेषज्ञानायोपादीयमानो राजशब्दः खाम्यन्तरेभ्यः पुरुषं व्यावर्तयति / सोऽयं खाम्यन्तरव्यवच्छेदो भेद इत्युच्यते / यदा पुनरनवगतपरायत्तभावस्य पुरुषस्य खामिसंबन्धद्योतनाय राजशब्दः प्रयुज्यते तदा विशे. घसंसर्गस्य शब्दोपादानत्वादनवकाशो विशेषान्तरसंपात इत्यशब्दा खाम्यन्तरनिवृत्तिरवसीयते / यदा त्वर्थान्तरनिवृत्तिं वार्थसंसर्ग वाभिसंधायोपसर्जनपदानि प्रयुज्यन्ते तदा शब्दार्थसामर्थ्ययोः प्रतिपत्तिनिबन्धनयोरमेदापेक्षया भेदसंसर्गसमुदयः सामर्थ्य भवति / यथा नीलं च तदुत्पलं चेति नीलोत्पलम् / प्रथमश्चासावनुरागश्चेति प्रथमानुराग इति, 1. 'सर्वस्व' घ. 2. 'स्वेभ्यः' क. नास्ति. 3. 'जातु क्वचित्' क.ख. 4. 'प्राक् प्रवृत्तेः' ख., 'प्राक् च प्रवृत्तः' ग. 5. 'यत्र' ग.घ. 6. 'इति' ख. नास्ति. 7. वि. शेषसंसर्ग चाभिसंधायोपसर्जनस्य' ख. 8. 'अशाब्दी' क. 1. स्वात्मसंसर्ग च' क., 'स्वार्थसंसर्ग च' ख. 10. 'अभेदापेक्षायाम्' क. ख.ग. पुस्तके. पाठोऽयं त्रुटितः.