________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 659 ___ अत्र करुणावस्थायां प्रियापादाजयोलण्ठता शोकेन यो विलापः कृतः स इह प्रकर्षालापत्वेन विपरिणमति // अत्रैव मनोऽवस्थापनान्वयार्थो यथा'अखण्डितं प्रेम लभख पत्युरित्युच्यते ताभिरुमा म नम्रा / तया तु तस्यार्धशरीरलाभादधःकृताः स्निग्धजनाशिषोऽपि 295' अत्रैव'यदैव पूर्व ज्वलने शरीरं सो दक्षरोषासुदती ससर्ज। ततःप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् // 296 // ' इति करुणावस्थायामतिखेहेनापरिग्रहत्वसाहसे यन्मनोऽवस्थापित तदिहार्धशरीरप्रदानमहासाहसमेवावतिष्ठते // तत्रैवाभ्यञ्जनान्वयार्थों यथा'भिन्ने सद्यः समाधावुपरमति परज्योतिषि स्पन्दसंज्ञे ... संज्ञामापद्यमाने मृदुमनसि मनागुन्मिपत्खिन्द्रियेषु / व्यापारे पारवश्यं विसृजति मरुति ब्रह्मसब्रह्मचारी ____वामार्धस्पर्शजन्मा जयति पुररिपोरन्तरानन्दपूरः // 297 // अत्र यत्करुणावस्थायां मनः शोकप्रकर्षेणाभ्यक्तमासीत्तदिह प्रियाश्लेषजन्मना परमानन्देनाभ्यज्यते / सोऽयं करुणधर्मान्वयस्तदनन्तरेऽपि समाससामर्थ्याद्भवति / कः पुनरत्र समासः / षष्ठीतत्पुरुष एव / का वृत्तिः / जहत्वार्था / न ह्यत्र करुणार्थस्य गन्धोऽपि / कथं तद्दन्वयः / यथा मल्लिकापुटः चम्पकपुट इत्यत्र निःकीर्णोखपि सुमनःसु मल्लिकादिर्वासनावशाद्विशेषणं भवति-अयं मल्लिकापुटोऽयं चम्पकपुट इति, एवं 1. परिणमति' क.ख. 2. 'साक्षादरोषात्' घ. 3. 'करुणधर्मसमन्वयः' क. ख. 4. 'निगीर्णासु' ख. .