________________ 5 परिच्छेदः। सरस्वतीकण्ठाभरणम् / 653 .. .अहाय सा नियमजं क्लममुत्ससर्ज केशः फलेन हि पुनर्नवतां विधत्ते // 281 // अत्र रञ्जयत्यर्थः प्रथमानुरागे पुंसि पश्चाद्भावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते // __ अत्रैवानुरूपार्थान्वयो यथा 'शशिनमुपगतेयं कौमुदी मेघमुक्तं __ जलनिधिमनुरूपं जहुकन्यावतीर्णा / इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवत्रुः // 282 // अत्र राजत्यर्थः प्रथमानुरागे स्त्रीपुंसयोरप्यानुरूप्येण सिद्धस्तदन. न्तरेऽपि तथैवानुवर्तते // . तत्रैवानुगतार्थान्वयो यथा-.. 'स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयामितप्तम् / या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम् // 283 // ___ अत्र पूर्वार्धे रञ्जयत्यर्थः प्रथमानुरागेऽनुगतार्थत्वेन सिद्धस्तदनन्तरे तथैवानुवर्तते / सोऽयं करणसाधनः प्रत्ययोत्पत्तिपक्ष उक्तः / भावसाधनपक्षे तु सर्वत्र सहार्थादिविशिष्टा रतिर्दीप्तिर्वानुरागशब्देनोच्यमाना तदनन्तरेऽपि समाससामर्थ्यादनुवर्तते / कः पुनरत्र समासः / षष्ठीलक्षणस्तत्पुरुषः / प्रथमानुरागस्यानन्तरः प्रथमानुरागानन्तर इति / का च वृत्तिः / अजहत्वार्था न ह्यत्र नायकौ मिथः समागतावपि प्रथमानुरागमुत्सृजतः / युक्तं पुनर्यदजह त्वार्था परार्थाभिधानरूपा वृत्तिः स्यात् , 1. 'पेलवयापि तप्त' इति मुद्रिते कुमारसंभवे, 'पेलवयाधितप्तं' क. 2. 'प्रथमानुगतार्थत्वेन' ख. 3. 'करुणसाधनः' ख, 4. 'इति' इत्यधिकमत्रास्ति क.ख.