________________ 654 काव्यमाला। अवश्यं ह्यनेन परस्यार्थमभिदधता खार्थ उत्स्रष्टव्यः / बाढं युक्तम् / एवं हि दृश्यते लोके भिक्षुको द्वितीया भिक्षामासाद्य पूर्वा न जहाति संचयायैव यतते, एवं तर्हि द्वयोर्द्विवचनमिति द्विवचनं प्राप्नोति / कस्या विभक्तेः / षष्ठ्याः / न षष्ठीसमर्थोऽनन्तरः / तर्हि प्रथमायाः। न प्रथमासमर्थः प्रथमानुरागः संबन्धाधिक्यात् / अभिहितः सोऽर्थोऽनन्तर्भूतः प्रातिपदिकार्थः संपन्न इति सामर्थ्य भविष्यति / मैवम् / इह प्रथमानुरागानन्तर इत्येतस्मात्समुदायाद्विभक्त्या उत्पत्तव्यम् / तेन च समुदायेनैकोऽर्थपिण्डो मृत्पिण्ड इवाविभागोपन्नपांसूदकविभागोऽवयवार्थशक्त्यानुगृहीतः पृथगव्यपदेश्यावयवशक्तिरभिधीयते / तसिंश्च समु. दायार्थ एकत्वं समवेतमतो विद्यमानायामप्यवयवसंख्यायां तदाश्रया सुबुत्पत्तिर्न भविष्यति // . मानानन्तरे पूजार्थान्वयो यथा'न स्पृष्टोऽपि त्रिदशसरिता दूरमीानुबन्धा नाप्युन्मृष्टो भुजगपतिना तर्जनाभिर्जयायाः / मानस्यान्ते नयनसलिलैः क्षालितः शैलपुत्र्या ___ पत्युौलौ नतियुजि जयत्यात्मनः पादपांसुः // 284 // ' अत्र पादपतनादिपूजा मानसिद्धा तदनन्तरेऽप्यनुवर्तते / / अत्रैव मानं प्रति प्रियत्वाभिमानार्थान्वयो यथा'विहायैतन्मानव्यसनमनयोरुच्चकुचयो निधेयः प्रेयांस्ते यदि वयमनुल्लङ्घयवचसः / . 1. 'न द्वितीयां भिक्षा' क., 'यद्वितीयां भिक्षाम्' ख. 2. 'अत्रान्तर्भूतः' क.ख. 3. 'इत्यस्मात्' क.ख. 4. 'तेन चैकोऽर्थः' ख. 5. 'अविभागोत्पन्न क.ख. 6. 'ना. प्युत्सृष्टो' क.ख. 7. 'प्रियस्वाभिमानान्वयो' क.ख. 8. 'विधेयः' क.ख...