________________ 652 काव्यमाला। अत्रामुना विरहिवाक्येनापि निर्वेक्ष्याव इति भविष्यकालोपाधेः प्रवासानन्तरेऽप्यविरुध्यमानेन तं तमात्माभिलाषमित्यादिना तदानीन्तनसंभोगस्य संपूर्णत्वं वर्ण्यते // करुणानन्तरे समृद्धो यथा'तीर्थे तोयव्यतिकरभवे जहुकन्यासरय्वो देहत्यागादमरगणनालेख्यमासाद्य सद्यः / पूर्वाकाराधिकतररुचा संगतः कान्तयासौ - लीलागारेष्वरमत .पुनर्नन्दनाभ्यन्तरेषु // 279 // अत्रोत्तरार्धनेन्दुमत्यजयोर्लोकान्तरप्रत्युज्जीवनेन संभोगसमृद्धिः प्रतिपाद्यते // प्रथमानुरागानन्तरे सहार्थान्वयो यथा'मुहपेच्छओ पई से सावि हु पिअरूअदंसणुम्मइआ / दो वि कअत्था पुहेविं अपुरिसमहिलं ति मण्णंति // 280 // ' मुखप्रेक्षकः पतिस्तस्याः सापि खलु प्रियरूपदर्शनोन्मत्ता / द्वावपि कृतार्थौ पृथिवीमपुरुषमहिलेति मन्येते // ] अत्र पूर्वार्धे रञ्जयत्यर्थ उत्तरार्धे राजत्यर्थः प्रथमानुरागे सह भावेन सिद्धस्तदनन्तरेऽपि तथैवानुवर्तते // तत्रैव पश्चादर्थान्वयो यथा'अद्य प्रभृत्यवनतानि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ / 1. 'प्रवेशानन्तरे' क.स. 2. 'भोग्यस्य' क.ख. 3. 'पूर्वाकाराधिकचतुरया' Mr. S. P. Pandit M. A. संपादिते रघुवंशे, क.ग.घ. 4. 'सविसेसदं. सणुम्मइआ' इति गाथासप्त० 5. 'पुहई' इति गाथासप्त.. 6. 'अमहिलपुरिसंव' इति गाथासप्त०. 7. ' सिमावेन सिद्धः क.स.