________________ 651 5 परिच्छेदः।] सरखतीकण्ठाभरणम् / , 'अत्र यथेयं मलाणभूतैवमस्या अहमपि जीवितमेवेति पत्या विस्र. म्भजोऽनुरागः पन्याः पुनः प्रेत्यापि यत्संगमो मयाभिलषितः सोऽयं जीवन्त्यैव जीवितेश्वरः समासादित इति विस्रम्भादतिसुखमेवानुभूयते / / अत्र प्रथमानुरागानन्तरे संभोगः संक्षिप्तो यथा- - 'अपेतव्याहारं धुतविविधशिल्पव्यतिकरं ___करस्पारम्भप्रगलितदुकूलान्तशयनम् / मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशो- . . __ रहल्यासुत्राम्णोः क्षणिकमिह तत्संगतमभूत् // 276 // ' अत्र संक्षेपो निगदेनैव व्याख्यायते // | स एव मानानन्तरे संकीर्णो यथा _ 'अणुणिअखणलद्धसुहे पुणो वि संभरिअमण्णुदूमिअविहले / .. हिअए माणवईणं चिरेण पणेअगरुओ पसम्मई रोसो 277' [अनुनीतक्षणलब्धसुखे पुनरपि संस्मृतमन्युदूनितविह्वले। . हृदये मानवतीनां चिरेण प्रणयगुरुकः प्रशाम्यति रोषः // ] अत्रावस्थिता प्रकृष्टा च रतिळलींकस्मरणादिभिः संकीर्यते // प्रवासानन्तरे संपूर्णो यथा-- ... 'शापान्तो मे भुजगशयनादुत्थिते शाङ्गपाणौ ......... .. मासानेता गमय चतुरो लोचने मीलयित्वा / पश्चादावां विरहगुणितं तं तमात्माभिलाषं ...निर्वेक्ष्यावः परिणतशरचन्द्रिकासुः क्षपासु // 278 // ' / 1. 'रागः' क.व. 2. 'च्युतविविध' क.ख. 3. करस्पर्शारम्भे' क. 4. विहलो' क. 5. 'पअणगरओ' ख. 6. 'संपूर्णा' क.ख. 7. 'शेषान्मासान्” मुद्रिते मेघदूते.