________________ 650 - काव्यमाला।। . निर्यान्तीषु सखीषु वासभवनान्निगन्तुमेवेहते बाला वामतयैव संप्रति मम प्रीत्यै नवोढा प्रिया // 272' ! अत्राप्रागल्भ्यवामताभ्यामनुकूलायामपि नवोढायामिच्छानुवृत्त्या रतिः पाल्यते // मानानन्तरे कौटिल्यार्थो यथा'पादे मूर्धनि ताम्रतामुपगते कर्णोत्पले चूर्णिते छिन्ने हारलतागुणे करतले संपातजातव्रणे / अप्राप्तप्रियताडनव्यतिकरा हन्तुं पुनः कोपिता वाञ्छन्ती मुहुरेणशावनयना पर्याकुला रोदिति // 273 // ' __ अत्र प्रेम्णः खभावकुटिलत्वान्मानवत्याः कचग्रहणेन यत्पादताडनादिरूपाः कुटिला एव संभोगा जायन्ते // प्रवासानन्तरेऽभ्यवहारार्थो यथा'वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् / पपौ निमेषालसपक्ष्मपतिरुपोषिताभ्यामिव लोचनाभ्याम् // 274 // " अत्र उत्तरार्धेनोपोषितस्यान्नोपयोग इव प्रियालोकजन्मा पिबतेरभ्यवहारः कथ्यते // करुणानन्तरेऽनुभवार्थो यथा-- 'अणुमरणपत्थिआए पञ्चागअजीविए पिअअमम्मि / वेहबमंडणं कुलवहूअ सोहग्गअंजाअम् // 275 // ' [अनुमरणप्रस्थितायाः प्रत्यागतजीविते प्रियतमे। की वैधव्यमण्डनं कुलवध्वाः सौभाग्यकं जातम् // ] 2.1. मेऽद्य सुतरां' इति मुद्रिते नागानन्दपुस्तके. 2. 'पर्याकुलं' क.ख. 3. 'कुटिला एंव जायन्ते' क., 'कुटिला एक संभोगा जायन्ते' ख. 4: 'उत्तरार्धे क.ख. 5.3 'अभ्यवहारार्थः' खं. 6. जीएम्मि' के., 'जीविएम्मि' ख. , .. . -