________________ 5 परिच्छेदः।] सरखतीकपयाभरणम् 613 तेषु ऋतुर्यथा'इदमपुलभवस्तु सार्थनादुनिर्वारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति / किमुत मलयवातोन्मूलितापाण्डुपत्रै रुपवनसहकारैर्दर्शितेष्वङ्करेषु // 131 // ' वयो यथा'मामूमुहत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत् / इत्यादि नन्विह निरर्थकमेव यस्मा ___ कामश्च जृम्भितगुणो नवयौवनं च // 132 // ' मदो यथा'तत्क्षणं विपरिवर्तितहियोर्नेष्यतोः शयनमिद्धरागयोः / सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च 133' चन्दनस्नानधूपादयश्चन्दनादयः / / तेषु चन्दनं यथा'चन्दनं विषधराश्रयः शशी वारुणी च विषसोदरावुभौ / तापयन्ति विरहे किमुच्यते मारयन्ति न यदेतदद्भुतम् 164' स्नानं यथा'आअम्बलोअणाणं ओलंसुअपाअडोरुजहणाणं / अवरहमज्जिरीणं कए ण कामो घेणुं वहइ // 135 // [आताम्रलोचनानामाौशुकप्रकटोरुजघनानाम् / अपराह्नमज्जनशीलानां कृते न कामो धनुर्वहति // ] 1. 'नक्षतीः' घ. 2. तयोः' क.ख. 3. 'उलु सुअ' क., 'उत्तुंसुअ' ख. 4. 'पअडोरुजणा' क. 5. 'अवरुहू' क.ख. 6. 'वहइ चावं' इति काव्यमालामुद्रितगाथासप्तशत्याम्, क.ख. च.