________________ 614 काव्यमाला। धूपो यथा'स्नानामुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु / कामो वसन्तात्ययमन्दवीयः केशेषु लेभे बलमङ्गनानाम् 136' चन्द्रोदयो घनध्वनिरुपकारस्मरणमित्याद्याश्चन्द्रोदयादयः / तेषु चन्द्रोदयो यथा'विलिम्पत्येतस्मिन्मलयजरसाट्टैण महसा दिशां वकं चन्द्रे सुकृतमथ तस्या मृगदृशः / दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं होः पृष्ठे वचसि च गुणा एव भवतः // 137 घनध्वनिर्यथा'अज मए तेण विणा अणुहूअसुहाइँ संमरंतीए / अहिणवमेहाण रखो णिसामिओ वज्झपंडहो व // 138 / ' [अद्य मया तेन विनानुभूतसुखानि संस्मरन्त्या / अभिनवमेघानां रवो निशामितो वध्यपटह इव // ] उपकारस्मरणं यथा'तन्मे मनः क्षिपति यत्सरसप्रहार मालोक्य मामगणितस्खलदुत्तरीया / त्रत्तैकहायनकुरङ्गविलोलदृष्टि राश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः // 139 // 1. 'शुष्केषु' घ. 2. 'वसन्तातप' ख. 3. 'विलिम्पन्त्येतस्मिन्' घ. 4. 'मलय. रजसाद्रेण' क.ख. 5. 'अणुभूअसुहाई अणिसंभरन्तीए' क.ख. 6. 'अहिणवमोहणरवो' ख. 7. 'वज्जपडहोत्र' घ. 8. 'हायण' ख.