________________ .612 काव्यमाला। . ज्ञानपौनःपुन्येनाभ्यासप्रत्ययादुत्पन्नोऽभ्यस्तः // स यथा'भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था / साक्षात्कामं नवमिव रतिर्मालती माधवं य दाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति // 127 // अत्र यद्यपि विषयगुणात् पटुः, आश्रयगुणादाहतोऽपि प्रत्ययः, पटुमाहतं च संस्कार प्रसूते तथाप्यभ्यासात्पटीयानाहततमश्च जायमानोऽभ्यस्त इत्युच्यते // उद्दीपनविभावेषु माल्यवस्त्रविभूषणादयो माल्यादयः / / तेषु माल्यं यथा'अशोकनिर्भसितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् / मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती // 128 // ' वस्त्रं यथा'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् / सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव // 129 // विभूषणं यथा'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य / अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः 130' ऋतुवयोमदादय ऋत्वादयः। 1. पौनःपुन्येन' ग.घ. 2. 'चादृतोऽपि' क.ख. 3. 'च' क.ख. नास्ति. 4. 'प्रसूयते' क.ख. 5. 'कनिकारम्' ख. 6. 'स्तवकावनम्रसंचारिणी' क. 7. 'निस्तुलस्य' क. 8. 'ऋतुर्वयोमदादयः' क.ख.