________________ __ काव्यमाला / अत्राविज्ञातोऽपि वासवः खसूनुमर्जुनं दृष्टः प्रीणयति // आभियोगिकी यथा 'अज्ञातबन्धुरयमृक्षहरीश्वरो मे ___ पौलस्त्य एष समरेषु पुरः प्रहर्ता / . इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रान्तलक्ष्मणमुभौ भरतो ववन्दे // 96 // " अत्र सीतान्वेषणादेरभियोगाद्रामस्य सुग्रीवबिभीषणयोः प्रीतिरुंदयते / सांप्रयोगिकीस्थाने आभ्यासिकी यथा 'इति विस्मृतान्यकरणीयमात्मनः __ सचिवावलम्बितधुरं नराधिपम् / परिवृद्धरागमनुबद्धसेवया . मृगया जहार चतुरेव कामिनी // 97 // अत्र 'शब्दादिभ्यो बहिर्भूता या कर्माभ्यासलक्षणा / प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु / ' इति लक्षणं घटते // आभिमानिकी यथा'दत्तेन्द्राभयदक्षिणैर्भगवतो वैवखतादामनो___ईप्तानां दहनाय दीपितनिजक्षात्रप्रतापामिभिः / आदित्यैर्यदि विग्रहो नृपतिभिर्धन्यं ममैतत्ततो दीप्तास्त्रस्फुरदुप्रदीधितिर्शिंखानीराजितज्यं धनुः // 98 // ' 1. 'दुःखैकवन्धु' क. ख. 2. 'व्युत्क्रम्य' क. ख. ग. 3. 'रुत्पद्यते' क. ख. 4. 'दीधितिभरैनीराजितज्यं' क.ख.