________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / प्रीतिविशेषेषु नैसर्गिकी यथा--:::. 'आलक्ष्य दन्तमुकुलाननिमित्तहासा नव्यक्तवर्णरमणीयवचःप्रवृत्तीन् / अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मेलिनीभवन्ति // 92 // ' अत्र यदा यदा रतिर्जायते तदा तदा पुत्रेषु नियति पुत्ररूपेण वा जायत इति जन्मान्तरवासनारूपो निसर्गः संगच्छते // . सांसर्गिकी यथा'विश्वंभरा भगवती भवतीमसूत / / राजा प्रजापतिसमो जनकः पिता ते। . तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां येषां कुले च सविता च गुरुवयं च // 93 // ' अत्र विश्वंभरादिसंसर्गात् सीतायां वसिष्ठमिश्राः स्निह्यन्ति / औपमानिकी यथा'कुवलयदलस्निग्धश्यामः शिखण्डकमण्डनो बटुपरिषदं पुण्यश्रीकः श्रियैव समाजयन् / पुनरिव शिशुभूत्वा वत्सः स मे रघुनन्दनो झटिति कुरुते दृष्टः कोऽयं दृशोरमृताञ्जनम् // 94 // ' अत्र रामौपम्याल्लवे जनकः प्रीयते // आध्यात्मिकी यथा- .... . 'परितस्तं पृथासूनुः स्नेहेन परितस्तरे। . ... अविज्ञातेऽपि बन्धों हि बलात्प्रेहादते मनः // 95 // 1. 'निमित्तसारान्' क., निमित्तहासैः' ख. 2. परुषीभवन्ति' ग. 3. 'भत्र यदा रतिर्जायते तदा पुत्रेषु नियति' ख. 4. 'कुलेषु' क.ख. 5. 'प्रहादते' घ.