________________ 5 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / अत्राभिमतप्रतिद्वन्द्विलाभाल्लवानुपदी कुशस्तुष्यति // वैषयिकीषु शब्दे यथा• 'लावण्यैः क्षणदाविराममधुराः किंचिद्विनिद्रालस .. श्रोत्रैः सत्रणमुग्धचारणवधूदन्तच्छदावासिनः / पीयन्ते मृदुवकपीतमरुतः पौराणरीतिक्रम___व्यालोलाङ्गुलिरुद्धशुक्तसुषिरश्रेणीरवा वेणवः // 99 // स्पर्शे यथा'प्रशान्तधर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः / ददौ भुजालम्बमिवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः // 10 // रूपे यथा 'अयमभिनवमेघश्यामलोत्तुङ्गसानु__ मंदमुखरमयूरीमुक्तसंसक्तकेकः / शकुनिशबलनीडानोकहस्निग्धवर्मा वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः // 101 // ' रसे यथा'इक्षुदण्डस्य मण्डस्य दनः पिष्टकृतस्य च / वराहस्य च मांसस्य सोऽयं गच्छति फाल्गुनः // 102 // गन्धे यथा 'कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् / ___ यत्र खंतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति // 103' उपलक्षणं चैतत् / तेनोत्साहस्य युद्धदानदयावीरादयः, क्रोषस्य 1. 'वैषयिकी यथा-' क. 2. विनिगालसं' - क. ख. 3. 'गीतिक्रम' क... 4. 'मुक्त' क.ख. 5, श्रेणीधरा' क. स. 6. बद्धविश्रब्धनृत्यः' घ. 7. 'पिष्टवस' क. ख. 8. 'वराहस्य' क. ख. 9. 'स्नुत' ग.