________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / स्थायिभावस्तदीयावयवदर्शनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमेयेषु हर्षरोमोद्गमखेदगद्गदादिषु व्यभिचारिषु निष्पद्यमानोऽद्भुत इत्युच्यते // 'इदं मघोनः कुलिशं धारासंनिहितानलम् / स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते // 71 // अत्र महेन्द्रकुलिशाद्धारासंनिहितानलादालम्बनविभावात्स्मर्यमाणादपि दैत्यस्त्रीणामुत्पन्नो भैयस्थायिभावस्तद्विदीर्णदानवमरणस्मरणादिभिरुद्दीपनविभावैरुद्दीप्यमानः खगर्भपातादिभिरनुभावादिभिस्तदनुमितैश्च खेदस्तम्भवेपथुप्रभृतिभिर्व्यभिचारिभिः संसृज्यमानो भयानकरसरूपेण निष्पन्नः केनचिदाख्यायमानोऽपि भयानक इत्याख्यायते // . 'पायं पायं तवारीणां शोणितं पाणिसंपुटैः / कौणपाः सह नृत्यन्ति कबन्धैरत्रभूषणाः // 72 // अत्रालम्बनविभावभूतेभ्यः कोणपेभ्यः कस्यचिद्रिपुजयशंसिनः पुंस उत्पन्नो जुगुप्सास्थायिभावः शिरश्छेदविगलद्रुधिरधारापरिप्लुतप्रणतितकबन्धकौणपान्त्रभूषणशोणितपानादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमेयेषु भयावेशशङ्कावहित्यादिषु व्यभिचारिषु निष्पन्नो बीभत्स इति निगद्यते // 'इदमम्लानमानाया लग्नं स्तनतटे तव / छाद्यतामुत्तरीयेण नवं नखपदं सखि // 73 // 1. 'संनिहितानलालम्बन' ख. 2. 'भयस्थायिभावः' क. ख. 3. 'सगर्भपातादिभिः' घ. 4. 'करसम्पुटैः' क. ख. 5. 'रिपुविजयाशंसिनः' ख. 6. 'प्रवर्तित' ख. 7. व्यभिचारादिषु' क.