________________ 698 / काव्यमाला। अत्र काचित् सखीं पूर्व भर्तरि गृहीतमानां तेनैव नखपदायितस्तनीमालम्बनविभावभूतामुपलभमानायाः कस्याश्चित्सख्या उत्पन्नो हासः स्थायिभावस्तदीयमानपरिग्रहस्मरणादिभिरुद्दीपनविभावरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमितेषु शङ्कावहित्थगद्गदादिव्यभिचारिषु निष्पद्यमानो हास्यशब्देनाभिधीयते // 'यदेव रोचते मह्यं तदेव कुरुते प्रिया / इति वेत्ति न जानाति तैत्प्रियं यत्करोति सा // 74 // ' __ अत्र वत्सलप्रकृतेर्षीरतया ललितनायकस्य प्रियालम्बनविभावादुत्पन्नः स्नेहँस्थायिभावो विषयसौकुमार्यात्मप्रकृत्यादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानैर्मोहँधृतिस्मृत्यादिभिर्व्यभिचारिभावैरनुभावैश्च संसृज्यमानो निष्पन्नः प्रेयानिति प्रतीयते // रतिप्रीत्योरपि चायमेव मूलप्रकृतिरिष्यते / यदित्थमाहुः'अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया / स हि स्नेहात्मकस्तन्तुरन्तर्मर्माणि सीव्यति // 75 // सर्वाः संपत्तयस्तस्य संतुष्टं यस्य मानसम् / उपानद्ढपादस्य ननु चर्मास्तृतैव भूः / / 76 // ' अत्र कस्यचिदुपशान्तप्रकृतेधीरशान्तनायकस्य यथोपनतमनोनुकूलदारादिसंपत्तेरालम्बनविभावभूतायाः समुत्पन्नो धृतिस्थायिभावो वस्तुतत्त्वालोचनादिभिरुद्दीपनविभावैरुद्दीप्यमानः समुपजायमानस्मृत्यादिभिर्व्यभि 1. 'प्रगृहीतमानां' क. ख. 2. 'पदाङ्कितस्तनाम्' ख. 3. निष्पाद्यमानो' क. 4. 'जानामि' ख. 5. 'यत्प्रियं तत्करोति सा' क.ख. 6. 'प्रियानुभाव' क.ख. 7. स्नेहस्थायिभावो' क. 8. 'मोहमतिधृतिस्मृति' क.ख. 9. 'प्रशंसादिभिः' इत्यधिकः पाठः क.ख.१०. 'चर्मावृतैव' क.ख. 11. 'धीरप्रशान्त' क.ख. 12. 'स्मृति. मत्यासत्या' क. 'स्मृतिमत्यादिभिः' ख.