________________ .. काव्यमाला / _. 'अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः। - अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् // 67 // अत्र वसुधाविजयादेरालम्बनविभावादुत्पन्नः स्थाय्युत्साहभावः स्थैर्यधैर्यादिभिरुद्दीपनविभावैरुद्दीप्यमानैः समुत्पन्नेषु वागारम्भानुमीयमानेषु स्मृतिमतिवितर्कादिषु निष्पन्नो वीररससंज्ञया व्यवहियते // 'यस्याः कुसुमशय्यापि कोमलाझ्या रुजाकरी / साधिशेते कथं देवी हुताशनवती चिताम् // 68 // ' अत्र चालम्बनविभावभूतदेवीमरणादुत्पन्नः शोकः स्थायिभावश्चितानिवेशनहुताशनाङ्गज्वालादिभिरुद्दीपनविभावैरुद्दीप्यमानो वागारम्भानुमेयै. निर्वेदग्लानिवैवादिभिर्व्यभिचारिभिः संसृज्यमानः करुण इति ज्ञायते॥ 'निगृह्य केशेष्वाकृष्टा कृष्णा येन ममाग्रतः / सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणम् // 69 // अत्र दुःशासनालम्बनविभावाय क्रुध्यतो भीमसेनस्य पूर्वमुत्पन्नः क्रोधः स्थायिभावस्तदवाप्तेः स्मर्यमाणसमक्षकृतद्रौपदीनिग्रहकेशकर्षणादिभिरुद्दी. पनविभावैरुद्दीप्यमानः समुत्पन्नेषु वागारम्भानुमीयमानेष्वसूयावेगवेपथु श्रमादिषु दुःखात्मकेषु व्यभिचारिषु निप्पद्यमानो रौद्र इति निष्पद्यते / / - 'अंशुकानि प्रवालानि पुष्पं हारादिभूषणम् / ... फलं मधूनि हाणि शाखा नन्दनशाखिनाम् // 70 // .. - अत्र शाखिनां प्रवालपुष्पफलशाखासंपन्नं निजं.रूपं नन्दनशाखिनां पुनः प्रवालादिस्थानेष्वंशुकहारमधुमन्दिराणि तदेतदाश्चर्यम् / अतश्चैतेभ्य आलम्बनविभावेभ्यः कस्यचिद्देवभूयंगतस्य समुत्पन्नो विस्मयः 1. 'निष्पाद्यमानो' ख. 2. 'प्रवालादिस्थानेशुकहार' क. न. 3. विस्मयस्थायिभावः' क, ख.