________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 595 नागावं. मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं निद्राच्छेदार्भिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः॥६५॥' .. अत्र दृष्टेः प्रत्यग्रोन्मेषजिह्मतादिभिः प्रबोधो नाद्यापि निष्पद्यत इति प्रतीयते // उक्ता भावादिमेदेन तेऽमी रत्यादयो रसाः। अर्थतेष्वेव केषांचिद्विशेषानभिदध्महे // 163 // तत्र . शृङ्गारवीरकरुणरौद्राद्भुतभयानकाः / बीभत्सहास्यप्रेयांसः शान्तदान्तोद्धता रसाः॥१६४ / / रतिनिसर्गसंसौपम्याध्यात्माभियोगजा। संप्रयोगाभिमानोत्था विषयोत्था च कथ्यते // 165 // प्रीतिरप्येवमेव स्यान्न त्वस्यां सांप्रयोगिकी। आभ्यासिकी तु तत्स्थाने तदुदाहृतयो यथा // 166 // 'मृतेति प्रेत्य संगन्तुं यया मे मरणं मतम् / सैवावन्ती मया लब्धा कथमत्रैव जन्मनि // 66 // ' अत्र स्थायिनो विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति रतिरेव शृङ्गाररूपेण निष्पद्यते / अत्रावन्त्या वासवदत्ताया आलम्बनविभावभूतायाः सकाशादुत्पन्नो वत्सेश्वरस्य रतिस्थायिभावः, तस्याः पुनर्जीवनादिभिरुद्दीपनविभावरुद्दीप्यमानो मृतेत्यादिना वागारम्भानुभावेनानु. मीयमानैहर्षधृतिप्रभृतिभिः सुखात्मकैर्व्यभिचारिभिः संसृज्यमानः करुणानन्तरः संभोगः शृङ्गाराख्यां लभते // 1. 'नागाङ्ग' क. ख. 2. निद्राच्छेदातिताम्रा' क. ख. 3. 'अभ्यासिकी' क., 'अन्यासिकी' ख.