________________ 594 काव्यमाला। .. . अत्र रतिसुखानुभवाजिगमिषोरप्यगच्छत आलस्यं निष्पद्यते // निद्रा व्यापारवमुख्यमिन्द्रियाणां श्रमादिमिः। . तद्रपेण रसस्यानुबन्धो यथा'णिद्दालसपरिघुम्मिरतंसवैलन्तद्धतारआलोआ। कामस्स वि. दुन्विसहा दिट्ठिणिवाआ ससिमुहीए // 63 // [निद्रालसैंपरिघूर्णनशीलतिर्यग्वलदर्धतारकालोकाः / __कामस्यापि दुर्विषहा दृष्टिनिपाताः शशिमुख्याः // ] अत्र रतिश्रमजागरादिजनितनिद्रालेसा दृष्टिनिपातास्तारकाघूर्णनव्यसवलनादिभिरनुबध्यन्ते // निद्रादिजनितं सुप्तमिन्द्रियादिनिमीलनम् // 162 // तद्रूपेण सप्रकर्षों यथा'ओसुअइ दिण्णपंडिवक्खवेअणं पसिढिलेहि अङ्गेहिं / णिव्वत्तिअसुरअरसाणुबंधसुहणिभर सोण्हा // 64 // [अवस्खपिति दत्तप्रतिपक्षवेदनं प्रशिथिलैरङ्गैः। निर्वर्तितसुरतरसानुबन्धसुखनिर्भरं स्नुषा // ] अत्र निर्भरपदेनैव प्रकर्षः प्रतिपाद्यते // निद्रापगमहेतुभ्यः प्रबोधश्चेतनागमः / तद्रूपेण रसस्यानुबन्धो यथा'प्रत्ययोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणा मात्मव्यापारगुर्वी जनितजललवाजम्भणैः साङ्गभङ्गैः / 1. 'रसानुबन्धो' घ. 2. 'घुण्णिरतं' ख., 'घुम्मिरतं' ग., 'घुम्मिरत' घ. 3. 'संवलतद्धा' क. 4. 'घूर्णनास्रचलनादिमिः' क., 'घूर्णनव्यस्रचलनादिभिः' ख. 5. 'निद्रालसदृष्टिनिपाताः क.ख. 6. 'बाह्येन्द्रियनिमीलनम्' क.ख. 7. 'रसस्य' ग. 8. 'पडिवक्खे अणं' ख. 9. 'निम्भरं' क.