________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / मुकुलयति च नेत्रे सर्वथा सुभ्र खेद- ___ स्त्वयि विलसति तुल्यं वल्लभालोकनेन // 59 // 'अत्र मालत्याः पुष्पावचयजन्मा श्रमः, माधवावलोकनजा च रतिः, खेदगद्गदाङ्गसादनयनमुकुलैस्तुल्यधर्मिणौ मिथः संकीर्यते // चित्तस्य खेदो निर्वेदस्तत्त्वज्ञानोदयादिभिः। तद्रूपेण रसस्य शेषो यथा'जरामरणदौर्गत्यव्याधयस्तावदासताम् / मन्ये जन्मैव धीराणां भूयोभूयस्त्रपाकरम् / / 60. // अत्र मोक्षायोत्सहमानस्य कस्यचिन्निर्वेदावगमो गम्यते // क्रियाखपाटवं जाड्यं चिन्तोत्कण्ठाभयादिभिः। तद्रूपेण रसस्य निष्पत्तिर्यथा- .. 'शिथिलशिथिलं न्यस्य खैरं धनुःशिखरे शिरो . नयनसलिलैः कुर्वन्मौर्वीलतामपरामिव / अहह विकलः श्रुत्वा श्रुत्वा घनस्तनितध्वनि किमपि किमपि ध्यायन्नार्यों न याति न तिष्ठति // 61 // ' अत्र विरहिणो रामस्य क्रियास्वपाटवं निष्पाद्यते // .... क्रियाविद्वेष आलस्यं सुखसंविन्मदादिभिः // 161 // तद्रूपेण रसस्य निष्पत्तिर्यथा'घरिणिघणत्थणपेल्लणसुहेल्लिपंडिअस्स होन्तपहिअस्स। अवसउँणगारअवारविहिदिअहा सुहावेन्ति // 62 // ' [गृहिणीघनस्तनप्रेरणसुखकेलिपतितस्य भविष्यत्पथिकस्य / ----- ... अपशकुनाङ्गारकवारविष्टिदिवसाः सुखयन्ति // ] ..... 1. 'माधवालोकनेन' घ. 2. 'रसनिष्पत्तिः' घ. 3. पेक्खण' घ. 4. 'णिपडिअस्स' क.ख. 5. 'होन्ति' क.ख. 6. 'अवसदुणंगर' ख. 5. 'दिअसा मुहावेन्ति' क.ख. 38 स० क. -