________________ 592 काव्यमाला / ग्लपयति परिपाण्डुक्षाममस्याः शरीरं शरदिज इव धर्मः केतकीगर्भपत्रम् // 56 // अत्र प्रकृष्टशोकानुबन्धिनी ग्लानिर्वैवर्ण्यक्षामताभ्यामनुबध्यते / / उत्कण्ठाहर्षशोकादेरुन्मादश्चित्तविप्लवः // 159 // तद्रूपेण रसस्य जन्म यथा'काकार्य व कलाधरस्य च कुलं भूयोऽपि दृश्येत सा दोषाणामुपशान्तये श्रुतमहो कोपेऽपि शान्तं मुखम् / किं वक्ष्यन्त्यपकल्मषाः कृतधियो रेखैव सान्यादृशी चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति 57 अत्र विरहिणः पुरूरवस उत्कण्ठादिभिः प्रेमप्रकर्षादसत्प्रलापरूप उन्मादो निष्पद्यते // आदरातिशयाच्चेतस्यावेगः संभ्रमो मतः। तद्रूपेण रसस्य संकरो यथा'अलमलमतिमात्रं साहसेनामुना ते त्वरितमपि विमुश्च त्वं लतापाशमेनम् / चलितमिव निरोद्धं जीवितं जीवितेशे क्षणमिह मम कण्ठे बाहुपाशं निधेहि // 58 // ' अत्र रतिजन्मा संभ्रमातिशयो रतिजन्मनैव मतिप्रकर्षेण संकीर्यते // __ मनःशरीरयोः खेदः क्रियातिशयतः श्रमः // 160 // तद्रूपेण रसस्य संकरो यथा'स्खलयति वचनं ते संश्रयत्यङ्गमङ्गं जनयति मुखचन्द्रोद्भासिनः खेदबिन्दून् / / 1. 'काकार्य शश-लक्ष्मणः' विक्रमोर्वशीये। 'काकार्य के कलाकरस्य' च. ख., व कलाधरस्य' च. ख. 2. 'लेखैव' घ.