________________ 30 5 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / 589 यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः // 18 // अत्र यद्यपि सोल्लुण्ठदोषकीर्तनादिभिर्जुगुप्सा निष्पद्यते तथापि न तया खनिष्पत्तिहेतुरसूया संकीर्यते // ईर्षामाहुः समानेषु मानदानाघमर्षणम् // 155 // तद्रूपेण रसस्य प्रकर्षों यथा'हुं णिल्लज्ज समोसर तं चिो अणुणेसु जाइ दे एअं। पाअग्गंगुट्टालत्तएण तिलअं विणिम्मविअं // 49 // हिं निर्लज्ज समपसर तामेवानुनय यस्यास्त एतत् / पादाग्राङ्गुष्ठालक्तकेन तिलकं विनिर्मितम् // ] अत्र कस्याश्चित् प्रेयसि सपत्नी प्रसादयितुं गते तन्मानममृष्यमाणायाः समुत्पन्ना प्रियानुनयादिमि शायमानतया निष्पन्नालक्तकतिल. कानुमेयैस्तत्पादपतनादिभिरुद्दीप्ता हुंकाराक्षेपभर्त्सनप्रतिभेदाविनाभूतैर्भूभङ्गताडनाङ्गक्षेपवेपथुखेदगद्गदादिभिः संसृज्यमाना प्रकृष्यते // विषादश्चेतसो ग्लानिरुपायाभावनाशयोः / तद्रूपेण रसस्य प्रकर्षो यथा'व्यर्थं यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा. प्रज्ञा जाम्बवतोऽपि यत्र न गतिः पुत्रस्य वायोरपि / .. मार्ग यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः सौमित्रेरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे // 50 // 1. 'त्रीण्यकुतोमुखानि' क., 'त्रीण्यकुतोभयानि' क. टिप्पण्याम् , 'त्रीणि कुतोसुखानि' ख. 2. 'इन्द्रसूनुदलने' ग.घ. 3. 'मानदानाद्यमर्षणात्' ग. 4. 'हुम्' घ. नास्ति. 5. 'विस' ख. 6. 'पाअग्ग' ख. 7. 'वीर्य हरीणां वृथा' क.ख. .