________________ काव्यमाला / अत्र सीतासमागमविषये रामस्य दृष्टावदानसुप्रीवसख्यादेरुपायस्याभावाद्विषादः प्रकृष्यते // - ... सत्त्वत्यागादनुत्कर्षों वाक्यादेर्दैन्यमुच्यते // 156 // तद्रूपेण रसस्यानुबन्धो यथा'अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन स्त्वय्यस्याः कथमप्यबान्धवकृतां भावप्रवृत्तिं च ताम्। सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्याधीनमतः परं न खलु तद्वाच्यं वधूबन्धुभिः // 51 // " अत्र स्नेहप्रभवं पादत्रयोक्तमर्थितादैन्यं तुंरीयपादोपक्षिप्तयाजादैन्यान्तरेणानुबध्यते // विदुर्वाग्दण्डपारुष्यमुग्रतामपकारिषु / / तद्रूपेण रसस्य प्रकर्षो यथा- ' 'प्रणयिसखीसलीलपरिहासरसाधिगतै ललितशिरीषपुष्पहननैरपि ताम्यति यत् / वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः / / 52 // अत्र माधवस्य प्रकृष्टापकारिण्यघोरघण्टे विषये प्रकृष्टमेव वाक्पारुष्यं दण्डपारुष्यं च जायते // त्रासश्चित्तचमत्कार आकसिकमयादिभिः॥ 157 // .... तद्रूपेण रसस्य जन्म यथा परिस्फुरन्मीनविघट्टितो रवः सुराङ्गनास्त्रासविलोलदृष्टयः / उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् 53'