________________ 588. / काव्यमाला। तद्रूपेण रसस्य प्रकर्षों यथा'जातस्य ते पितुरपीन्द्रजितो निहन्तु वत्सस्य वत्स कति नाम दिनान्यमूनि / तस्याप्यपत्यमधितिष्ठति वीरेधर्मे दिया गतं दशरथस्य कुलं प्रतिष्ठाम् // 46 // ' अत्र दशरथसुहृदः सुमन्त्रसारथेः प्रभुंकुलस्य प्रतिष्ठामाशंसतस्तत्सूनुमिन्द्रजितो हन्तारं पश्यतो मनोरथावाप्त्या हर्षों निष्पन्नस्तदपत्येऽपि वीरधर्ममाचरिष्णौ प्रकृष्टो दिष्टयेत्यव्ययेन सूच्यते // क्रोधः कृतापेराधेषु स्थिरोऽमर्षत्वमश्नुते // 154 // तद्रूपेण रसस्य प्रकर्षों यथा'लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य / आकृष्टपाण्डववधूपरिधानकेशाः - खस्था भवन्ति मयि जीवति धार्तराष्ट्राः // 17 // अत्र भीमसेनस्य धार्तराष्ट्रेषु खस्था इति नानोऽप्यसहनात् लाक्षागृहाद्यपकारजन्मामर्षः प्रतीयते // असूयान्यगुणीनामौद्धत्यादसहिष्णुता / तद्रूपेण रसस्य जन्म यथा'वन्द्यास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दस्त्रीनिधनेऽप्यखण्डयशसो लोके महान्तो हि ते / 1. 'रसनिष्पत्तियथा' घ. 2. 'वीरधर्मम्' घ. 3. 'दशरथस्य सुहृदः' घ. 4. 'प्रभुकुलप्रतिष्ठा' ख. 5. 'कृतापकारेषु' घ. 6. 'प्रकृत्य' घ.:७. 'भीमस्य' घ. 8. प्यसहमानातू' घ. 9. 'प्रकृष्यते' घ...