________________ 5 परिच्छेदः / सरखतीकण्ठामरणम् / . 'प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् / ___ चरणौ रञ्जयन्त्वस्याश्चूडामणिमरीचिभिः // 13 // इत्यादेदेवर्षिवाक्यादुद्भूतः प्रहर्षाकारो गुरुसंनिधौ लजितया लीलाकमलपत्रगणनव्याजेन गौर्या गोप्यते // सुखदुःखादिजनितो मोहश्चित्तस्य मूढता / तद्रूपेण रसनिष्पत्तिर्यथा'कान्ते तल्पमुपागते विगलिता नीवी खयं बन्धना द्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् / एतावत्सखि वेनि केवलमहं तस्याङ्गसङ्गे पुनः .. कोऽयं का वयमत्र किं नु सुरतं खल्पापि मेन स्मृतिः 44' अत्र स्थायिनी रतिर्मोहनिष्पत्त्या प्रकृष्यते // संमोहानन्दसंभेदो मदिरादिकृतो मदः॥१५३ // तद्रूपेण रसस्य निष्पत्तिर्यथा'घूर्णमाननयनं स्खलत्कथं खेदबिन्दुमदकारणमितम् / आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ // 15 // अत्र नयनघूर्णनाकारणस्मितादयः संमोहानन्दसंभेदादुद्भवन्तो मदं निष्पादयन्ति / __ मनःप्रसादो हर्षः स्यादिष्टावाप्तिस्तवादिभिः / 2. 'इत्यादिदेवर्षिवाक्यादुद्भूतः' घ. 'इत्यादेर्मुनिवाक्यादुद्भूतः' क. ख. 2. 'उद्भुतप्रहर्षाकारो' ख. 3. 'गणनेन' क.ख. 4. 'रसस्य निष्पत्तिः' ख. 5. 'कोऽसौ. कास्मि रतं नु किं कथमिति' क.ख. 6. 'संभेदा उद्भवन्तो' ख.