________________ - काव्यमाला / तद्रूपेण रसस्य प्रकर्षो यथा'नीतो विक्रमबाहुरात्मसमतां प्राप्तेयमुर्वीतले सारं सागरिका ससागरमहीप्रात्येकहेतुः प्रिया / देवी प्रीतिमुपागता च भगिनीलाभाजिताः कोसलाः किं नास्ति त्वयि सत्यमात्यवृषभे यसिन्करोमि स्पृहाम् // 40 // ' अत्र वत्सराजस्य सर्वात्मना मनोरथसिद्धयो धृतेः प्रकर्षमावहन्ति / / चेतोनिमीलनं ब्रीडान्यङ्गरागस्तवादिभिः // 151 // तद्रूपेण रेंसस्य प्रकर्षे क्रोधशोकाभ्यां संकरो यथा'अक्षुद्रारिकृताभिमन्युनिर्धेनप्रोद्भूततीव्रक्रुधः / पार्थस्याकृतशात्रवप्रतिकृतेरन्तःशुचा मुह्यतः / कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो ___ हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति कण्ठाहहिः // 41 // अत्रार्जुनस्यान्यायेनाभिमन्युवधादुद्भूतौ दीप्तावेव क्रोधशोकावुद्भूतविप्रतीकारोत्थया तथाविधयैव ब्रीडया संकीर्यते / तथाहि क्रोधशोकयोरनुभावभूता दृष्टयो वाचश्च ब्रीडाजडा इति विशेषणानि संबध्यन्ते / अवहित्थं तु लजादेहांद्याकारगोपनम् // 152 // तद्रूपेण रसस्यानुबन्धो यथा एवंवादिनि देवर्षों पार्थे पितुरधोमुखी। 'लीलाकमलपत्राणि गणयामास पार्वती // 42 // . 1. रसनिष्पत्तिर्यथा' घ. 2. 'कोशलाः' ख. 3. 'यस्सै' रत्नावल्या मुद्रिते पाठ.. 4. न्वङ्ग ख. 5. 'रसप्रकर्षात्' क.ख. 6. 'कोपशोकाभ्यां ख. 7. 'निधनासंक्रान्ततीव्रक्रुधः' क.ख. 8. 'अकृतविप्रतीकारोत्षया' ष. 1. 'ब्रीडा इति विशेषणानि' घ.