________________ ____काव्यमाला / अन्यापि किं न सखि भाजनमीदृशानां - वैरी न चेंद्भवति वेपथुरन्तरायः // 28 // अयमपि प्राग्वदेवान्यैर्नानुगम्यते / .. विषादमदरोषादेर्वर्णान्यत्वं विवर्णता // 144 // तद्रूपेण रसस्य निष्पत्तिर्यथा'सहि साहसु तेण समं अहं पि किं णिग्गआ पहाअम्मि / अण्णचिअ दीसइ जेण दप्पणे कावि सा सुमुही // 29 // सखि साधय तेन सममहमपि किं निर्गता प्रभाते / अन्यैव दृश्यते येन दर्पणे कापि सा सुमुखी // ] अयमपि नान्यैरनुबध्यते // अश्रु नेत्रोद्गत वारि दुःखशोकप्रहर्षजम् / तद्रूपेण रसस्यानुबन्धो यथा-- 'उत्पक्ष्मणोनयनयोरुपरुद्धवृत्ति बाष्पं कुरु स्थिरतया शिथिलानुबन्धम् / / अस्मिन्नलक्षितनतोन्नतभूमिभागे ___ मार्गे पदानि खलु ते विषमीभवन्ति // 30 // ' अत्र बाष्पशब्देन लोचनाश्रयमश्रूच्यते न कण्ठाद्याश्रयो दुःखावेशः / यथा-'विललाप स बाष्पगद्गदम्', 'मुहुँर्मग्नः कण्ठे तरलयति बाष्पः स्तनतटीम्' इत्यादि / प्रलयस्तीवदुःखादेरिन्द्रियास्तमयो मतः // 145 // तद्रूपेण रसस्य निष्पत्तिर्यथा'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् / अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव // 31 // ' ...... 'नान्यरनुगम्यते' क.ख. 2. 'सहि साहसं तेण' क. 3. 'पहअस्मि' ख. 4. 'मुहुर्लग्नः कण्ठे' क.ख. 5. 'इति' ख.