________________ 5 परिच्छेदः / ] सरखतीकण्ठाभरणम् / . 583 अत्र मोहशब्देन मूर्चीच्यते, न वक्ष्यमाणलक्षणो मोहः / ___ स्मृतिः पूर्वानुभूतार्थविषयं ज्ञानमुच्यते // 146 // , तद्रूपेण रसस्यानुबन्धो यथा'इतः प्रत्यादेशाखजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे / पुनदृष्टिं बाष्पप्रसरकलुषामर्पितवती * मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् // 32 // अत्र सविशेषा स्मृतिरिच्छया वागारम्भेण चानुबध्यते / निष्पत्त्यादयः पुनरस्या रत्यादिनिष्पत्तिष्वेव द्रष्टव्याः / रत्यादयोऽस्मृतिमूलत्वात्तत्प्रकर्षापकर्षावनुवर्तन्ते // ऊहो वितर्क इत्युक्तः पदार्थेषु यथामति / तद्रूपेण रसस्य निष्पत्तिर्यथा'चित्ते निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन घटिता मनसा कृता नु। .. स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्चं तस्याः // 33 // सोऽयमसत्यः सत्यो वा स्मृतिज्ञानचिन्तनादिद्वारेण निर्णयान्तो निष्पन्न इत्युच्यते // उत्कण्ठेष्टानवाप्तौ योऽभिलाषः स्यात्तदाप्तये // 147 // तद्रूपेण रसस्य निष्पत्तिहासौ यथा'यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् / 1. बाष्पप्रकर' कःख. 2. तिष्ठेत्यादयः' ख. 3. 'रत्यादयो हि स्मृतिमूलतत्प्रकर्षापकर्षावनुवर्तन्ते' क.ख. 4. 'सत्त्वयोगात्' क.ख. 5. 'विधिना विहिता कृतामी' पाठः: 6. 'बापस्तम्भितकण्ठवृत्तिवचनम्'ख.