________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / तद्रूपेण रसस्य जन्म यथा___ 'करिमरि अआलगजिरजलआसणिपउणपडिरओ एसो। पइणो धणुरवकंखिणि रोमंचं किं मुहा वहसि // 25 // [बन्दि अकालगर्जनजलदाशनिपतनप्रतिरव एषः / . पत्युर्धनूरवाकाक्षणशीले रोमाञ्च किं मुधा वहसि // ] अस्यापि सात्त्विकत्वादन्यानुबन्धादयो न जायन्ते / मदप्रमदपीडादेवैवयं गद्दं विदुः। तद्रूपेण रसस्य निष्पत्तिर्यथा'पिपिप्रिय ससखयं मुमुमुखासवं देहि मे ततत्यज दुदुद्रुतं भभभभाजनं काञ्चनम् / इति स्खलितजल्पितं मदवशात्कुरजीदृशः प्रगे हसितहेतवे सहचरीभिरध्येयत // 26 // अत्रापि सात्त्विकत्वान्निष्पन्नो नान्यैरनुबध्यते // वपुर्जलोद्गमः खेदो रतिधर्मश्रमादिभिः॥१४३॥ तद्रूपेण रसस्य जन्म यथा- . 'हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् / खेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं चित्रविशेषकेषु // 27 // ' अत्रापि पूर्ववदन्यानुषङ्गो न भवति // रागरोषभयादिभ्यः कम्पो गात्रस वेपथुः / तद्रूपेण रसस्य जन्म यथा. मा गर्वमुबह कपोलतले चकास्ति कान्तखहस्तलिखिता मम मञ्जरीति / 1. 'अयमपि' क.ख. 2. 'पाण्डरीभूत. ख. 3. पत्रविशेषकेषु' क.ख. - -