________________ 580 काव्यमाला / परित्यागविषयत्वेनैवात्र जुगुप्सानुगमो ग्रहीतव्यः / शंम्बुकविषये पुनरस्या जन्ममात्रमेवेति // विसयश्चित्तविस्तारः पदार्थातिशयादिभिः। तद्रूपेण रसैनिष्पत्तिर्यथा'कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता खेच्छया सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् / व्यादेहीति विकासिते च वदने दृष्ट्वा समस्तं जग माता यस्य जगाम विस्मयपदं पायात्स वः केशवः // 23 // ' . अत्र शिशोर्मुखे जगद्दर्शनमालम्बनविभावः, तत्सामग्र्यशैशवा-- लोचनमुद्दीपनविभावः, विस्मयवशं जगामेत्यनेनानुपाचा अपि सर्वे संचौरिणोऽनुभावाश्च गृह्यन्ते // . स्तम्भश्चेष्टाप्रतीघातो भयरागामयादिभिः // 142 // तद्रूपेण रसस्य पुष्टिर्यथा'तं ताण हअच्छाअं णिच्चललोअणसिहं पउत्थपआवं / आलेक्खपईवाणिव णिअअं पअइचडुलत्तणं पि विअलिअं॥२४॥ तत्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् / __ आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् // ] अयं च पुष्टोऽपि सात्त्विकत्वात् सदैवान्यानुयायीति नानुभावादिभिरनुबध्यते // हर्षाभूतभयादिभ्यो रोमाञ्चो रोमविक्रिया / 1. 'शम्बूकविषये' क. 2. 'रसस्य जन्म यथा' क.ख. 3. 'रन्तुमधुना' क.ख. 4. 'मुशली' क.ख. 5. 'विदारिते तु वदने' क.ख. 6. 'शैशवाघालोकन' क.ख. 7. 'सर्वे संचारिणो' इत्यस्य स्थाने 'केवलं संचारिणः' क.ख. 8. 'तं ताणं' ख. .