________________ 5 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 579 पूर्वरङ्गपर्यवसायित्वेनानुद्दीपनविमावत्वादनुत्साहानुभावत्वाच नायमनुबन्धो निष्पत्तिः प्रकर्षो वा भवति // - भयं चित्तस्य वैक्लव्यं रौद्रादिजनितं विदुः / तद्रूपेण रसस्यानुबन्धो यथा'मन्त्रान्मृत्युजितो जपद्भिरसकृद्ध्यायद्भिरिष्टान्सुरान् / शुष्यत्तालुमिराकुलाकुलपदैनिर्वाग्भिरुत्कम्पिमिः। अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला ___ लङ्घयन्ते करिमांसघस्मररणत्कौलेयकाः पल्लयः // 21 // अत्र यद्यपि पल्लीनामालम्बनत्वम् , तद्विशेषणयोरुद्दीपनत्वम् , मन्त्रजपादेरनुभावत्वम् , तालुशोषादीनां व्यभिचारित्वमिति विभावानुभाव. व्यभिचारिसंयोगोऽस्ति, तथापि मन्त्रजपेष्टदेवतानुध्यानयोर्लङ्घनोपायपरत्वान्न भयरूपेण रैसस्य निष्पत्तिः / अध्वन्यानां हि तन्निष्पत्तावल्पसत्वतया स्तम्भमोहमूर्छामरणादिभिरुपायप्रयोगो न घटते // जुगुप्सा गर्हणार्थानां दोषसंदर्शनादिभिः॥१४१ // तद्रूपेण रसस्यानुगमो यथा'हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् / रामस्य गात्रमसि निर्भरगर्भखिन्न सीताप्रवासनपटोः करुणा कुतस्ते // 22 // . . अत्र यद्यपि द्विजशिशोर्जीवनाय मुनिरपि शूद्रो वध्य इति न रामस्यात्मकर्मनिन्दा तथाप्यनपेकारिणं जिघांसतो घृणानुवर्तत एव। सीता. 1. रणात्कौलेयकाः' क., 'रुणत्कौलेयकाः' ग.प. 2. 'न तविशेषणयोः' ख. 3. रसनिष्पत्तिः' क. 4. रे हस्त' क.ख. 5. 'प्यनयकारिणं' ख. 6. 'घृणा प्रवत इति सीतापरित्याग' क.ख.