________________ काव्यमाला / - शोकश्चित्तस्य वैधुर्यमभीष्टविरहादिभिः॥ 139 // तद्रूपेण रसस्य निष्पत्तिर्यथा-- 'हृदयान्नापयातोऽसि दिक्षु सर्वासु दृश्यसे / - वत्स राम गतोऽसीति संतापादनुमीयसे // 18 // . अत्र दशरथस्य रामवियोगादुत्पन्नस्तद्गुणस्मरणादिभिरुद्दीपितश्चिन्तासंतापादिर्वागारम्भेण चानुषज्यमानः शोकरूपेण रसो निष्पद्यते / / प्रतिकूलेषु तैष्ण्यस्य प्रबोधः क्रोध उच्यते / तद्रूपेण रसस्य निष्पत्तिर्यथा 'मय्येवमसेरणदारुणचित्तवृत्तौ ___ वृत्तं रहः प्रणयमप्रतिपद्यमाने / भेदा वोः कुटिलयोरतिलोहिताक्ष्या __भमं शरासनमिवातिरुषा सरस्य // 19 // अत्र यद्यपि विभावानुभावव्यभिचारिसंयोगलक्षणाया रसनिष्पत्तेः 'अधिकमतिरुषातिलोहिताक्ष्या' इति प्रकर्षनिमित्तमतिशब्दोपादानं विद्यते, तथाप्युत्तमनायिकाश्रयः प्रियविषये न रोषः प्रकर्षमासादयति // कार्यारम्भेषु संरम्भः स्थेयानुत्साह इष्यते // 140 // तद्रूपेण रसस्य जन्म यथा, 'मूर्धा जाम्बवतोऽभिवाद्य चरणावापृच्छय सेनापती नाश्वास्याचमुखान्मुहुः प्रियसखीन्प्रेष्यान्समादिश्व च / ' आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेचने रंहखी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः // 20 // अत्राभिवादनप्रश्नाश्वासनसमादेशनादिशिखरारोहणेष्टदेवतास्मरणानां 1. वीक्ष्यते' घ. 2. 'मत्सरण' ख. 3. 'प्रतिपाद्यमाने.क. 4. 'विभावानुभावसंचारिसंयोग' क.ख. 5. 'देवस्मरणानां' घ.. ..