________________ ५परिच्छेदः / सरखतीकण्ठाभरणम् / '577 - नीकीबन्धवदागतं शिथिलतामाभाषमाणे ततो न मानेनापगतं हियेव सुदृशः पादस्पृशि प्रेयसि // 15 // अत्र बलवभ्यां प्रियप्रेमानुनयाभ्यां हीरोषयोरुपशमः क्रियते // रतावेव रोषरूपरसस्य शेषो यथा'एष्यत्युत्सुकमागते विचलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् / मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्ण क्षणा___ चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि // 16 // अत्र कस्याश्चिद्बलवता प्रेम्णोन्मूलितस्यापि मानस्य शेषोऽनुवर्तते / त एते भावादयो दशापि रसप्रकारा हासादिष्वपि प्रॉयो दृश्यन्ते / अन्थगौरवभयात्कंचित्कचिदुदाहियन्ते // तत्र न्यङ्गनीडादिभिश्चेतोविकारो हास उच्यते / तद्रूपेण रसस्य भावो यथा'कनककलशंखच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् / असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन् जयति जनितव्रीडाहासः प्रियाहसितो हरिः // 17 // .. अत्र राधाया हरिन्यङ्गाद्, हरेस्तु ब्रीडातो हासस्य सत्तामात्रं प्रतीयते // .. 1. 'विवलितं' क.ख. 2. 'बाष्पाम्बुपूर्णेक्षणं' क. 'बाष्पाम्बुपूर्ण क्षणं' ख. * 3. 'शेषेऽनुवर्तते' क. 4. 'भावा दशापि' क. 5. 'प्रायशो' ख. 6. 'न क्वचिदुदाह्रियन्ते' ख. 7. 'न्यङ्गः क्रीडादिमिः' क., 'व्यङ्गक्रीडादिमिः' ख., सोलवचो न्यङ्गवाच्यम्. 8 'राषया व्यङ्गितस्य' ख. 37 स.क.