________________ 566 काव्यमाला। नित्यो नैमित्तिकैश्चान्यः सामान्योऽन्यो विशेषवान् / प्रच्छन्नोऽन्यः प्रकाशोऽन्यः कृत्रिमाकृत्रिमावुभौ // 97 / / सहजाहार्यनामानौ परौ यौवनजोऽपरः। विस्रम्भजश्च प्रेमाणो द्वादशैते महर्द्धयः॥९८॥ चक्षुःप्रीतिर्मनःसङ्गः संकल्पोत्पत्तिसंततिः। .. प्रलापो जागरः कार्यमरतिविषयान्तरे // 99 // लज्जाविसर्जनं व्याधिरुन्मादो मूर्छनं मुहुः। मरणं चेति विज्ञेयाः क्रमेण प्रेमपुष्टयः // 100 // नायकः प्रतिपूर्वोऽसावुपपूर्वोऽनुनायकः। नायिका प्रतिपूर्वासावुपपूर्वानुनायिका // 101 // नायिकानायकाभासावुभयाभास इत्यपि / इति निप्रत्ययः / सर्वदेशव्यापिन्य इत्यर्थः। देशे भवा देश्याः / प्रादेशिन्य इत्यर्थः / जनेभ्यो विशिष्टमिति घटादयो नागरकाणामिति / समस्यास्तु साधारणाः। तत्र जना नागरकाश्च क्रीडन्ति / तस्मात्तेभ्यो विशिष्टमाचरेयुः नागरत्वद्योतनार्थम् / संभूयक्रीडा इति / आसु नागरकाणां द्रव्यमुपहार्य संभूयक्रीडनात् / कन्दर्पचूडामणिकर्ता वीरभद्रोऽपि–'कुर्याच्च यक्षरात्रि सुखरात्रिः सा च कथ्यते लोके। ऐक्यं कोजागरया कौमुद्यास्तत्र निर्दिष्टम् // मुवसन्तकोऽत्र शास्त्रे भवति वसन्तस्य वासरः प्रथमः / बिसखा. दिका सरस्यां बिसभुक्तिः कीर्तिता लोकैः // मदनार्थिताम्रकुसुमैरवतंसे चाम्रभक्षिका प्रोक्ता / अभ्यूषखादिकैवं ज्ञातव्या ग्रन्थतः परतः // अन्योन्यं जलसेकः पानीयवेडिकेरिता विबुधैः। कृत्रिमविवाहलीला कथिता नवपत्रिका तज्ज्ञैः॥ कृत्रिमपुत्रकलीला स्वादनुयानं तथा तु पाञ्चाल्याः / शाल्मल्यामधिरुह्य क्रीडैका शाल्मली कथिता // युद्धं कदम्बमुकुलैः प्रविभज्य बलं परस्परं यत्र / स्यात्तत्कदम्बयुद्धं कुर्यादन्यास्तथा लीलाः॥' इति जयमङ्गलाकर्तुरनुव्याचष्टे. . 1. 'नैमित्तिकश्चान्यो' क.घ. 2. 'विसम्भजश्व' क.ख. 3. 'नायकः प्रति पूर्वोऽयमुपपूर्वोऽनुनायकः' क.ख.