________________ 5 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / . 567 तिर्यक्षु च तदाभास इति द्वादश नायकाः // 102 // तेषु सर्वगुणोपेतः कथाव्यापी च नायकः / अन्यायवांस्तदुच्छेद्य उद्धतः प्रतिनायकः // 103 // ततः कैश्चिद्गुणैर्हीनः पूज्यश्चैवोपनायकः / समो न्यूनोऽपि वा तस्य कनीयाननुनायकः // 104 // स्यात्कथाव्यापिनी सर्वगुणयुक्ता च नायिका / हेतुरीpयितादीनां सपनी प्रतिनायिका // 105 // ततः कैश्चिद्गुणैींना पूज्या चैवोपनायिका / समा न्यूनापि वा किंचित्कनीयस्यनुनायिका // 106 // तदाभासास्तथैव स्युर्भेदाथैषां गुणादिभिः। नायकस्तत्र गुणत उत्तमो मध्यमोऽधमः // 107 // प्रकृतेः सात्त्विकः स स्याद्राजसस्तामसस्तथा / साधारणोऽनन्यजातिः स विज्ञेयः परिग्रहात् // 108 // उद्धतो ललितः शान्त उदात्तो धैर्यवृत्तितः। शठो धृष्टोऽनुकूलश्च दक्षिणश्च प्रवृत्तितः // 109 // गुणतो नायिकापि स्यादुत्तमा मध्यमाधमा / मुग्धा मध्या प्रगल्भा च वयसा कौशलेन वॉ.॥११०॥ . धीराधीरा च धैर्येण स्वान्यदीयापरिग्रहात् / ऊढानूढोपयमनाक्रमाज्येष्ठा कनीयसी // 111 // मानर्द्धरुद्धतोदात्ता शान्ता च ललिता च सा / . . सामान्या च पुनर्भूश्च खैरिणी चेति वृत्तितः॥११२॥ 1. 'तिर्यक्षु च तदाभासा' क.ख. 2. 'भेदास्तेषां' क.ख. 3. 'प्राकृतः' ख. 4. 'अनन्यजानिः ' ख. 5. 'च' क.ख.