________________ 5 परिच्छेदः / ] सरखतीकण्ठामरणम् / 565 ... तानि मधुपानं च प्रकीर्णानीति जानते // 96 // - 1. आलिङ्गनादिग्लहा दुरोदरादिक्रीडा द्यूतानि. 2. रागोीपनाय माध्वीकादिसेवा मधुपानम्. वात्स्यायनीये कामशास्त्रे क्रीडाद्वैविध्यं समस्या देश्याश्चेति मेदात् / तासु काश्चिद्विहाय सर्वा अपि नैताभ्यः पृथक् तत्रोल्लिखिताष्टीकाकर्ता व्याख्याता इत्यत्रापि तद्याख्यानं समुद्धृत्य विलिखामः-'समस्याः क्रीडा आह—यक्षरात्रिः, कौमुदीजागरः, सुवसन्तकः / यक्षरात्रिरिति सुखरात्रिः। यक्षाणां तत्र संनिधानात् / तत्र प्रायशो लोकस्य द्यूतक्रीडा / कौमुदीजागर इति / आश्वयुज्यां हि पौर्णमास्यां कौमुद्या ज्योत्लायाः प्रकर्षण प्रवृत्तेः / तत्र दोलाचतप्रायाः क्रीडाः / सुवसन्तक इति / सुवसन्तो मद. नोत्सवः / तत्र नृत्यगीतवाद्यप्रायाः क्रीडाः। एता माहिमान्यः क्रीडाः // देश्या आह -सहकारभक्षिका, अभ्यूषखादिका, बिसखादिका, नवपत्रिका, उदकक्ष्वेडिका, पाञ्चालानुयानम् , एकशाल्मली, कदम्बयुद्धानि, तास्ताश्च माहिमान्यो देश्याश्च क्रीडा जनेभ्यो विशिष्टमाचरेयुः / इति संभूयक्रीडाः / सहकारभलिकेति / सहकारफलानां भञ्जनं यत्र क्रीडायाम् / अभ्यूषखादिका फलानां विटपस्थानामग्नौ प्लोषितानां खादनं यत्र / बिसखादिका बिसानां मृणालानां खादनं यत्र। सरःसमीपवासिनामित्येते द्वे क्वचित्वचिद्दश्येते / नवपत्रिका प्रथमवर्षणेन प्ररूढनवपत्रासु वनस्थलीषु या क्रीडा सा प्रायेणाटवीसमीपवासिनामाटविकानां च / उदकवेडिकेति / 'वंशनाडी स्मृता क्ष्वेडा सिंहना. दश्च कथ्यते' इति / उदकपूर्णा वेडा यस्यां क्रीडायां सा मध्यदेश्यानाम् / यस्याः शृङ्गक्रीडेति प्रसिद्धिः / पाञ्चालानुयानम् / भिन्नालापचेष्टितैः पाञ्चालक्रीडा यथा मिथिलायाम् / एकशाल्मली एकमेव महान्तं कुसुमनिर्भरं शाल्मलीवृक्षमाश्रित्य तत्रत्यकुसुमाभरणानां क्रीडा / यथा वैदर्भाणाम् / यवचतुर्थी वैशाखशुक्लचतुझं नायकानां परस्परं सुगन्धयवचूर्णप्रक्षेप इति पाश्चात्येषु प्रसिद्धा। आलोलचतुर्थी श्रावणशुक्लतृतीयायां हिन्दोलक्रीडा / मदनोत्सवो मदनप्रतिकृतिपूजनम् / दमनमजिका परस्परं सुगन्धपुष्पविशेषावतंसनम्। होलाका... ... ... . / अशोकोत्तंसिका अशोकपुष्पैः शिरोभूषणरचना। पुष्पावचायिका पुष्पक्रीडा / चूतलतिका चूतपल्लवावतंसनम् / इक्षुभजिका इक्षुखण्डमण्डनम् / कदम्बयुद्धानि कदम्बकुसुमैः प्रहरणभूतैर्दिधा बलं विभज्य युद्धानि / कदम्बग्रहणं कुसुमसुकुमारप्रहरणसूचनार्थम् / यष्टीष्टकादियुद्धानि तु न कार्याणि / यथा पौण्ड्राणां युद्धं क्वचित्कचिदृश्यते। तास्ताश्चेति / या या लोके प्रवृत्तिपूर्वाः। माहिमान्य इति महिमा महत्त्वं तद्विद्यते यासामिति / 'संशायां मन्माभ्याम् पा२।१३७