________________ 564 काव्यमाला। अष्टमीचन्द्रका कुन्दचतुर्थी सुर्वसन्तकः।. आन्दोलनचतुर्थंकशाल्मेली मदनोत्सवः // 93 // उदकक्ष्वेडिकाशोकोत्तंसिका चूतभञ्जिका / पुष्पावचायिकी चूतलतिका भूतमातृका // 94 // कदम्बयुद्धानि नवत्रिका बिसखादिका / शक्रांची कौमुदी यक्षराँत्रिरभ्यूषखादिका // 95 // नवेक्षुभैक्षिका तोयक्रीडी प्रेक्षादिदर्शनम् / 1. प्रकीर्णकेषु स्पृहयन्तीव्रतमष्टमीचन्द्रकः. स हि चैत्रचतुर्थीतोऽष्टम चतुर्थ्यामुपादीयमानः कामिनीभिरय॑ते. 2. यस्यां यवस्रस्तरेष्वबला लोलन्ति सा कुन्दचतुर्थी. 3. वसन्तावतारदिवसः सुवसन्तकः. 4. यस्यां स्त्रियो दोलामारोहन्ति सा आन्दोलनचतुर्थी. 5. एकमेव सुकुसुमनिर्भरशाल्मलिवृक्षमाश्रित्य सुनिमीलितकादिभिः खेलतां क्रीडा एकशाल्मली. 6. त्रयोदश्यां कामदेवपूजा मदनोत्सवः. 7. गन्धोदकपूर्णवंशनाडीशृङ्गादिमियूनां प्रियजनाभिषेककर्दमेन क्रीडा उदकक्ष्वेडिका. 8. यत्रोत्तमस्त्रियः पदाभिघातेनाशोकं विकाश्य तत्कुसुममवतंसयन्ति सा अशोकोत्तंसिका. 9. 'यत्राङ्गनामिश्चूतमार्योऽवचित्यानङ्गाय बालरागत्वेनैव दायंदायमवतंस्यन्ते सा चूतभञ्जिका., 'भूतमञ्जिका' घ. 10. यत्र युवत्यो मदिरागण्डूषदोहदेन बकुलं विकाश्य तत्पुष्पाण्यवचि. न्वन्ति सा पुष्पावचायिका. 11. यत्र कस्ते प्रियतम इति पृच्छद्भिः पलाशादिनवल. ताभिः प्रियो जनो' हन्यते सा चूतलतिका. 12. पञ्चात्मनानुनयन्ती भूतमातृका. 13. वर्षासु कदम्बनीपहारिद्रकादिकुसुमैः, प्रहरणभूतैर्द्विधा बलं विभज्य कामिनीनां क्रीडा कदम्बयुद्धानि., कादम्बयुद्धानीत्यपि पाठः. 14. प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु शादलमभ्यर्च्य भुक्तपीतानां कृत्रिमविवाहादिक्रीडा नवपत्रिका. 15. अभिनवबिसाङ्कुरोद्भेदाभिरामसरः समाश्रित्य कामिमिथुनानां क्रीडा बिसखादिका. 16. शकोत्सवदिवसेः शक्रार्चा. 17. आश्विने पौर्णमासी कौमुदी. 18. दीपोत्सवो यक्षरात्रिः. 19. शमीधान्यानामाणामेवाग्निपक्कानामभ्यवहारोऽभ्यूषखादिका.' 'अभ्युष: खादिका' इत्यपि पाठः. 20. प्रथमतं एवेक्षुभक्षणं नवेक्षुभक्षिका.. 21. ग्रीष्मादौ जलाशयावगाहनं तोयक्रीडा. 22. नाथादिदर्शनं प्रेक्षा.. .