________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / यदि वा भोग इत्यस्य संप्रयोगार्थवाचिनः / समा समासे चत्वारो विशेषास्तमुपासते // 83 // स संक्षिप्तोऽथ संकीर्णः संपूर्णः सम्यगृद्धिमान् / अनन्तरोपदिष्टेषु संभोगेषूपपद्यते // 84 // नवे हि सङ्गमे प्रायो युवानः साध्वसादिभिः / संक्षिप्तानेव रत्यर्थमुपचारान्प्रयुञ्जते // 85 // मानस्यानन्तरे तेषां व्यलीकसरणादिभिः। रोषशेषानुसंधानात्संकरः केन वार्यते / / 86 // संपूर्णः पूर्णकामानां कामिनां प्रोष्यसंगमे / उत्कण्ठितानां भूयिष्ठमुपभोगः प्रवर्तते // 87 // प्रत्यागतेऽपि यत्रैषा रतिपुष्टिः प्रिये जैने / सा किमावर्ण्यते यूनां तत्रैव मृतजीविते // 88 // पूर्वानुरागः पूर्वाणां व्युत्पत्तिभिरुदाहृतः / अनन्तराणां सर्वेषां तत्समासे निरुक्तयः॥ 89 // वृत्तिस्तत्राजहत्स्वार्थी जहत्वार्थापि वर्तताम् / प्रधानमनुपस्कृत्य न तदर्थो निवर्तते // 90 // . प्रथमानन्तरे वृत्तेरजहत्वार्थतेष्यते / नात्यन्तमजहत्वार्था तां मानानन्तरे विदुः // 91 // प्रवासानन्तरे त्वीपदजहत्वार्थतेष्यते / .करुणार्थस्य गन्धोऽपि नास्त्येव तदनन्तरे // 92 // 1. समा समुपसर्गेण. 2. 'चतुराश्चतुरोऽर्थान् प्रचक्षते' क.ख. 3. तं संभोगम्. 4. 'संक्षिप्तोऽर्धसंकीर्णः' क. 5. 'प्रयोजने' क. 6. 'पूर्वानुरागपूर्वाणां' क.ख.