________________ 560 काव्यमाला / स्त्रीपुंसयोर्विप्रलम्भे वैचिच्याकल्पनादयः / चेष्टाविशेषाः संभोगे चुम्बनालिङ्गनादयः॥ 53 // .. विप्रलम्भेऽभियोगाद्यैः संभोगे साध्वसादिभिः / मिथःपरीक्षा याः प्रेम्णो निर्दिष्टास्ताः परीष्टयः // 54 // विप्रलम्भादिशब्दानां लोकसिद्धेषु वस्तुषु / प्रकृत्यादिविभागेन विनिवेशा निरुक्तयः // 55 // संश्रुत्य विप्रलम्भार्थान्गृधिवयोः प्रलम्भने / इत्यादिज्ञापकाज्ज्ञेयः प्रपूर्वो वञ्चने लमिः // 56 // आदानं च प्रतिश्रुत्य विसंवादनमेव च / कालस्य हरणं चाहुः प्रत्यादानं च वञ्चनम् // 57 // पूर्वानुरागपूर्वेषु विप्रलम्भेषु तत्क्रमात् / विशेषद्योतकेनेह व्युपसर्गेण सूच्यते // 58 // प्रतिश्रवो हि पूर्वानुरागे वक्रेक्षितादिभिः / अभीष्टालिङ्गनादीनामदानं हीमयादिभिः // 59 // माने निवारणं तेषां विसंवादनमुच्यते / / अयथावत्पदानं वा व्यलीकस्सरणादिभिः // 60 // प्रवासे कालहरणं व्यक्तमेषां प्रतीयते / प्रोष्यागतेष्विहैतानि कान्ताः कान्तेषु युञ्जते // 61 // प्रत्यादानं पुनस्तेषां करुणे को न मन्यते / स्वयं दत्तानि हि विधिस्तानि तत्रापकर्षति // 62 // 1. 'वैचिन्त्याकल्पकादयः' ग. 2. परीक्षा या प्रेम्णो' घ.. 3. 'पूर्वानुरागवके. क्षितादिभिः' क. 4. 'मादानं' क.ख. 5. अभीष्टालिङ्गनादीनाम्. 6. 'कारणे' ग.