________________ 5 परिच्छेदः।] सरखतीकण्ठाभरणन् / 559 उपसंख्यानमेतेषामनुभावेषु मन्वते / . पश्चाद्भावानुभूतिभ्यां सरणाद्यनुभाववत् // 43 // स्मृत्यादयोऽनुभावाश्च भावाः संचारिणश्च ये / नाट्येषु क्रियमाणास्ते नटैरभिनयाः स्मृताः // 44 // भावो यदा रतिर्नाम प्रकर्षमधिगच्छति / नाधिगच्छति चाभीष्टं विप्रलम्भस्तदोच्यते // 45 // पूर्वानुरागो मानश्च प्रवासः करुणश्च सः। पुरुषस्त्रीप्रकाण्डेषु चतुःकाण्डः प्रकाशते // 46 // प्रागसंगतयोऍनोरभिलाषः प्रवर्तते / संकल्परमणीयोऽनुरागः स प्राच्य उच्यते // 47 // अहेरिव गतिः प्रेम्णः खभावकुटिलेति सः / अहेतोमैति नेत्युक्तेर्हेतो; मान उच्यते // 48 // देशान्तरादिमिनोर्व्यवधानं चिराय यत् / नवेऽनुरागे प्रौढे वा प्रवासः सोऽभिधीयते // 49 // लोकान्तरगते यूनि वल्लभे वल्लभा यदा / भृशं दुःखायते दीनो करुणः स तदोच्यते // 50 // रतिरेवेष्टसंप्राप्तौ पुष्टः संमोग उच्यते / सोऽपि पूर्वानुरागादेरानन्तर्याच्चतुर्विधः // 51 // न विना विप्रलम्भेन संभोगः पुष्टिमश्नुते / कषायिते हि वस्त्रादौ भूयात्रागोऽनुषज्यते // 52 // 1. 'नाग्रेषु' (1) क., 'नाट्येऽनुक्रियमाणाः' ख. 2. 'प्रागसंकेतयोयूनोः' ख. 3. 'अहेतोनेंति मेत्युक्ते' क. 4. 'स न उच्यते' क. 5. 'दीन:' क.