________________ 5 परिच्छेदः। सरस्वतीकण्ठाभरणम् / ... - अनुभावादिहेतूंस्तान्वदन्ति व्यभिचारिणः // 21 // जनित्वा ये न जायन्ते तेऽथवा व्यभिचारिणः। ", स्मृत्यादयो हि प्रेमादौ भवन्ति न भवन्ति च // 22 // रतौ संचारिणः सर्वान् गर्वस्नेही धृति मतिम् / स्थास्नूनेवोद्धतप्रेयःशान्तोदात्तेषु जानते // 23 // संस्कारपाटवादिभ्योऽनुभावं वा निजाश्रये / संचारिणं वा जनयन् सात्त्विकं वा स जायते // 24 // उद्दीपनविभावेभ्यः स्मृतिहेतौ पटीयसि / अनुबन्धोऽनुभावादेरनुबन्धोऽस्य कथ्यते // 25 // विभावस्यानुभावस्य सात्त्विकव्यभिचारिणोः / संयोगे तस्य.निष्पत्तिमात्रं निष्पतिरुच्यते // 26 // विषयाश्रयसंस्कारगुणप्रकृतिपाटवैः। दीपनातिशयैश्चास्य प्रकर्षः पुष्टिरुच्यते // 27 // तुल्यकालंबलोत्पत्तिहेतौ भावान्तरोदये / संसर्गस्तस्य यस्तेन संकरः स निगद्यते // 28 // रसान्तरतिरस्कारादन्यद्रागाच तस्य यः / भवत्यपचयो वृद्धेस्तासं तं प्रचक्षते // 29 // हीनपात्रेषु तिर्यक्षु नायकप्रतियोगिषु / गौणेष्वेव पदार्थेषु तमाभासं विजानते // 30 // बलवत्सूपजातेषु प्रतिकूलेषु हेतुषु / . सवोत्मना समुच्छेदः प्रशमस्तस्य वर्ण्यते // 31 // ... आश्रयात्प्रकृतेर्वापि संस्कारस्थैर्यतोऽपि वा / 1. 'गर्वस्नेहैधृति' ख. 2. 'अनुबन्धः स' ख. 3. रसस्य. 4. 'निष्पत्तिरिष्यते' ख. 5. 'प्रचक्षते' घ. 6. 'संसारस्थैर्यतोऽपि वा' घ.