________________ काव्यमाला। नायिकानायकगुणाः पाकाद्याः प्रेमभक्तयः। नानालंकारसंसृष्टेः प्रकाराश्च रसोक्तयः॥११॥ चतुर्विंशतिरित्युक्ता रसान्वयविभूतयः। खरूपमासां यो वेद स काव्यं कर्तुमर्हति // 12 // आलम्बनविभावेभ्यः स्वेभ्यः खेभ्यः समुन्मिषन् / रसो रत्यादिरूपेण भाव इत्यभिधीयते // 13 // रतिहासश्च शोकश्च क्रोधोत्साहौ भयं तथा / जुगुप्सा विस्मयश्चाष्टौ स्थायिभावाः प्रकीर्तिताः॥१४॥ स्तम्भस्तनूरुहो दो गद्गदः स्वेदवेपथू / वैवर्ण्यमझुप्रलय इत्यष्टौ साचिकाः स्मृताः // 15 // स्मृतिर्वितर्क उत्कण्ठा चिन्ता चपलता मतिः। गर्वः स्नेहो धृतिौंडावहित्थं मूढता मदः // 16 // हर्षामर्षावसूयेा विषादो दैन्यमुग्रता / त्रासः शङ्का गदो ग्लानिरुन्मादः संभ्रमः श्रमः॥१७॥ निर्वेदो जाड्यमालयं निद्रा सुप्तं प्रबुद्धता / इति भावात्रयस्त्रिंशद्विज्ञेया व्यभिचारिणः // 18 // चिरं चिचेऽवतिष्ठन्ते संबध्यन्तेऽनुबन्धिभिः / रसत्वं प्रतिपद्यन्ते प्रबुद्धाः स्थायिनोऽत्र ते // 19 // रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते / निवृत्तयेऽस्य तद्योगात्प्रभवन्तीति सात्त्विकाः // 20 // विशेषेणाभितः काये स्थायिनं चारयन्ति ये / . 1. रसोक्तीनाम्. 2. 'तनुरुहोद्भेद' ग.घ. 3. 'अश्रुप्रलयावित्यष्टौ' क.ख. 4 मताः' क.ख. 5. 'वितर्कश्चोत्कण्ठा' क.ख. 6. 'प्रवृद्धाः क.ख.