________________ 554 काव्यमाला। भूतलमिव, भूतलं गगनतलमिव कुर्वन् / अत्र यथा नरसिंहजातौ सिंहनराङ्गभागयोळक्ताव्यक्तरूपं स्फुरणं तथा परिवृत्त्यलंकारे हेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः॥ व्यक्ताव्यक्तैव चित्रवर्णवद्यथा'मयूरारावमुखरां प्रावृषं सतडिल्लताम् / महाटवीमिवोल्लङ्घय तोयानि मुमुचुर्घनाः / / 243 // " अत्र पटावयवस्थानां नीलादीनामिव पटावयव्याश्रिते चित्रवर्णे श्लेषरूपकोपमार्थश्लेषाणां पदपदार्थाश्रयाणां शरद्वर्णनवाक्याश्रयिणि समाध्यलंकारे व्यक्ताव्यक्तरूपोऽङ्गाङ्गिभावः प्रतीयते // मयूरेत्यादि / मेघा जलानि त्यजन्ति स्म / महाटवीं महारण्यमिव प्रावृषं वर्षा उल्लङ्घय / कीदृशीम् / मयूरशब्दमुखरां, सह तडितेव लतया वर्तते ताम् / अत्रावयवाश्रितनीलादीनामवयव्याश्रिते चित्रवर्णे यथाङ्गाङ्गिभावस्तथा श्लेषादीनां समाध्यलंकारे व्यक्ताव्यक्तरूपोऽङ्गाङ्गिभावः प्रतीयत इति // चतुर्विंशतिरित्येताः क्रमेणोभयसंश्रयाः। काव्यालंकृतयः प्रोक्ता यथावदुपमादयः // 91 // इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते सरस्वतीकण्ठाभरणे उभयालंकारविवेचनो नाम चतुर्थः परिच्छेदः॥ चतुर्विंशतिरिति / इत्यनेन प्रकारेण चतुर्विंशतिरेता उपमादयः काव्यालेकृतय उक्ता इत्यन्वयः। अजहल्लिङ्गतात्र // उभयेति / शब्दार्थाश्रिता इत्यर्थः // रत्नं रत्नधरोऽजनिष्ट गुणिनामाद्योऽनवद्यः सतां __सा शुद्धा दमयन्तिकापि सुषुवे नैयायिकं यं सुतम् / तस्य श्रीशजगद्धरस्य कवितुर्वाणीगणा(ला)लंकृते टीकायामुभयप्रकाशनपरिच्छेदश्चतुर्थो गतः // इति महामहोपाध्यायधर्माधिकरणिकश्रीजगद्धरविरचिते सरस्वती-. कण्ठाभरणविवरणे चतुर्थः परिच्छेदः // 1. 'मयूरारावमुखरा' ग.