________________ 4 परिच्छेदः। सरस्वतीकण्ठाभरणम् / 553 अव्यक्ता क्षीरजलवद्यथा'क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च / टकोल्लिखितसूर्येव वसन्तश्रीरदृश्यत // 240 // ' अत्रोपमोत्प्रेक्षे क्षीरनीरवन्मिश्रे संसृष्टे न व्यज्यते // क्षीरेत्यादि / वसन्तश्रीर्वसन्तशोभाऽदृश्यत जनैः / कीदृशी / क्षीरेण दुग्धेन क्षालितश्चन्द्रो यस्यां सा। नीलीद्रव्येन धौतं क्षालितमम्बरमाकाशं यस्यां सा। टङ्केन पाषाणदारणेनोल्लिखित उत्खण्डितः सूर्यो यस्यां सा। 'टङ्कः पाषाणदारणः' इत्यमरः / अत्रोपमोत्प्रेक्षयोमिथो मिलनादव्यक्तता / उभयव्यञ्जकस्य तुल्यकक्षतया प्रवृत्तेरिदं बोद्धव्यम् // अव्यक्तैव पांसूदकवद्यथा'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी / याति विश्वसनीयत्वं कस्य ते कलभाषिणि // 241 // अत्र पांसूदकयोरिव मृत्पिण्डे श्लेषविरोधयोरव्यक्तयोरेव व्याजस्तुतावङ्गभावोऽवगम्यते // कृष्णेत्यादि / विवृतोऽयं भाविकालंकारे / अत्र यथा मृत्तिकापिण्डे धूलिजलयोमिथो मिलनादव्यक्तता तथा श्लेषविरोधयोर्व्याजस्तुतिप्रसङ्गतः संकरः // व्यक्ताव्यक्ता नरसिंहवद्यथा'रजोभिस्तुरगोत्कीर्णैर्गजैश्च घनसंनिभैः / भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् // 242 // __ अत्र नरसिंहजाताविव सिंहनरशरीरभागयोः परिवृत्यलंकारहेतूपमयोरङ्गभावो व्यक्ताव्यक्तरूपः परिस्फुरन्नुपलभ्यते // रजोभिरित्यादि / स कीदृशः / हयखुरक्षुण्णै रजोभिर्मेघतुल्यैर्हस्तिभिश्च गगनं 1. 'मृत्पिण्डश्लेषविरोधयोः' घ.