________________ 552 . काव्यमाला / तिलतण्डुलवध्यक्ता छायादर्शवदेव च / अव्यक्ता क्षीरजलवत्पांसुपानीयवच्च सा // 89 // . व्यक्ताव्यक्ता च संसृष्टिनरसिंहवदिष्यते / / चित्रवर्णवदन्यस्मिन्नानालंकारसंकरे // 9 // संसृष्टिरिति / नानालंकाराणां संकरोऽपि....."संसृष्टिः / छायेति / प्रतिबिम्बदर्पणवदित्यर्थः / क्षीरं दुग्धम् / पांसुधूलिः / चित्रेति / चित्रलिखितवर्णिकावदित्यर्थः // व्यक्ता तिलतण्डुलवद्यथा-. 'पिनष्टीव तरङ्गाग्रैरुदधिः फेनचन्दनम् / तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः / / 238 // अत्रोत्प्रेक्षाद्वयम्, रूपकद्वयं च तिलतण्डुलवत्संकीर्यते // पिनष्टीत्यादि / समुद्रस्तरङ्गाः फेनचन्दनं पिनष्टीव / इन्दुः करैस्तदादाय दिगङ्गना लिम्पतीव / अत्रेवशब्दाभ्यामुत्प्रेक्षाद्वयम् / फेन एव चन्दनम् , दिश एवाङ्गना इति रूपकद्वयम् / तदिदं मिश्रितं तिलतण्डुलवत् / यथा तिलानां तण्डुलानां च मिथो निरपेक्षाणामेव संकीर्णता तथात्रापि // व्यक्तैव छायादर्शवद्यथा'निर्मलेन्दु नभो रेजे विकचाजं बभौ सरः। परं पर्यश्रुनयनौ मम्लतुतरावुभौ // 239 / / ' अनादर्श छायेव हेत्वलंकारे रामलक्ष्मणमुखयोरिन्दुपद्मौपम्येन सहशासदृशव्यतिरेको दृश्यते // निर्मलेत्यादि / विवृतोऽयं व्यतिरेकालंकारे। अत्र पूर्वार्धन हेत्वलंकारे दर्शिते तदाधारक एव सदृशासदृशयोर्व्यतिरेकः / स च दर्पणे प्रतिबिम्ब इवाधाराधेयभावेन व्यवस्थापितः // 1. 'पांशुपानीयवच्च सा' पाठः, 2. 'अत्रादर्शच्छायेव' ख. .