________________ 4 परिच्छेदः।] सरखतीकण्ठाभरणम् / शरीरं पुलकिता.रोमाञ्चवती च / अत्र स्नानसंभोगयोस्तुल्यचिह्नस्योपदर्शनेन प्रकरणपरिप्राप्तं दूतीदुश्चेष्टितमुद्भिन्नम् , न च प्राग्वद्यक्तता॥ उभयरूपो यथा'अम्लानोत्पलकोमले सखि दृशौ नीलाञ्जनेनाञ्चिते कर्पूरच्छुरणाच गण्डफलके संवेल्लितः पाण्डिमा / श्वासाः सन्तु च कन्दुकभ्रमिभुवः किंतु प्रभावाहिना मङ्गानां ऋशिमानमुत्कटममुं को नाम नोत्प्रेक्षते // 237 // अत्र 'दृशोानता, गण्डयोः पाण्डुरत्वम् , श्वासानां दैर्घ्यम्' इत्युस्कण्ठाचिह्ननिहवाय योऽयमविनयक्त्या नीलाञ्जनादिप्रयोगस्तस्य तथा. भ्युपगमेऽपि 'अङ्गानां कशिमानमुत्कटममुं को नाम नोत्प्रेक्षते' इति योऽयं सखीव्याहारस्तेन तदभिप्राय उद्भिन्नोऽनुद्भिन्नश्च भवतीत्युभयरूपोऽयमुद्भेदः / तेऽमी त्रयोऽप्यु दा भाविकान्न भिद्यन्ते // __ अम्लानेत्यादि / किंतु हे संखि, तवाङ्गानाममुमुद्भटं ऋशिमानं कृशत्वं को न नामोत्प्रेक्षते किंतूनयत एव / यद्यपि तव दृशावम्लाने म्लानिहीने उत्पन्ने इव कोमले मनोज्ञे स्तः / कीदृशे। नीलकजलेनाञ्चिते / यतः कर्पूरस्य छुरणात् संबन्धात् पाण्डिमा पाण्डुरत्वं गण्डफलके संवेल्लितः संबद्धः / श्वासाश्च कन्दुकक्रीडनार्थ या भ्रमिभ्रमणं तत्प्रभवाः सन्तु / अङ्गानां कीदृशानाम् / प्रभावाहिनां प्रभां दीप्तिं वोढुं धतु शीलं येषां तेषाम् / सहजरम्याणामित्यर्थः / अविनयवत्या असत्याः / अत्राविनयवल्या आशयः किंचिद्यक्तीकृतः / किंचिच्चाव्यक्तीकृत इत्युभयरूपता // इति भाविकालंकारनिरूपणम् // संसृष्ट्यलंकारनिरूपणम् / ... ...... संसृष्टिलक्षणमाह संसृष्टिरिति विज्ञेया नानालंकारसंकरः / . * सा तु व्यक्ता तथाव्यक्ता व्यक्ताव्यक्तेति च त्रिधा // 8 // 1. 'न पुनस्तस्याधमस्यान्तिकम्' क. ख. 2. 'तत्त्वाभ्युपंगमेऽपि' क. ख. 3. 'सर्वालंकारसंकर; क. ख. .