________________ 550' / - काव्यमाला / उद्भेदेषु व्यक्तो यथा'मंतेसि महुमहपण संदाणेसि तिअसेसपाअवरअणम् / ओजसु मुद्धंसुहावं संभावेसु सुरणाह जाअवलोअम् // 235 // मनुषे मधुमथप्रणयं संदानयसि त्रिदशेशपादपरत्नम् / अपजहि मुग्धस्वभावं संभावय सुरनाथ यादवलोकम् // ] अत्र मायाविनो महेन्द्रस्याभिप्रायः सत्यकेन व्यक्तमेवोद्भिन्न इति व्यक्तोऽयमुद्भेदः // मन्तेसीत्यादि / “मनुषे मधुमथप्रणयं संदानयसि त्रिदशेश पादपरत्नम् / अपजहि मुग्धस्वभावं संभावय सुरनोथ यादवलोकम् // " इह हे सुरनाथ इन्द्र, यदि मधुमथस्य कृष्णस्य प्रणयं प्रीतिं मनुषे स्वीकरोषि / देवे पादपरत्नं पारिजातवृक्षं संददाने सति मुग्धं स्वभावं मौग्ध्यमपजहि त्यज / . यादवलोकं संभावय प्रीणय। अत्रेन्द्राभिप्रायः सत्यकेन तत्सारथिना व्यक्तः प्रकाशितः // अव्यक्तो यथा'निःशेषच्युतचन्दनं स्तनतटं निम॒ष्टरागोऽधरो ___ नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः / मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे ___ वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् // 236 // ' अत्र 'वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम्' इत्याक्षेपवता प्रारणिकोदाहरणेन यद्यपि दूत्या दुश्चेष्टितं निर्भिन्नं तथापि न पूर्ववध्यक्तमित्यव्यक्तोऽयमुद्भेदः // निःशेषेत्यादि / हे दूति, इतः स्थानात्त्वं वापी पुष्करिणी स्नातुं गतासि / तस्याधमस्यान्तिकं न गतासि / हे मिथ्यावादिनि, हे सुहृज्जनस्याज्ञातदुःखागमे। स्नानचिह्नान्याह-स्तनतटं निःशेषच्युतचन्दनमशेषक्षरितचन्दनमस्ति / तवाधरोऽपि त्यक्तलौहित्यः / तव नेत्रेऽत्यर्थमञ्जनशून्ये / तथा तवेयं तन्वी कृशा तनुः . 1. 'सुद्ध' इति पाठः. 2. 'जा अव' ख. ग. 3. पीडागमा' क. ख. 4. 'प्रकृतोदाहरणेन' क. ख........ ..... .