________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 549 अन्यभावना यथा 'दसणवलिअं दढकं विबन्धणं दीहरं सुपरिणाहम् / ' होइ घरे साहीणं मुसलं धण्णाणं महिलाणम् // 233 // ' [दंशनवलितं दृढकं विबन्धनं दीर्घ सुपरिणाहम् / भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम् // ] अत्र मेढूभावनया मुसलरूपस्योक्तत्वादिदमन्यभावनाभिधानं भाविकम् // . दंसणेत्यादि / “दंशनेन वलितं दृढकं विबन्धनं दीर्घ सुपरिणाहम् / भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम् // " इहोत्तमस्त्रीणां गृहे ईदृशं मुसलं वायत्तं भवति / कीदृशम् / दंशने धान्यादिमर्दने वलितं लग्नम् / दृढकं दृढम् / खार्थे कन् / विगतबन्धनं दीर्घ सुपरिणाहमतिस्थूलं च / मेट्रपक्षे दंशने भगमदने वलितं संनद्धं दृढं विगतबन्धनं दीर्घमतिस्थूलं च / अत्र मेद्राभिप्रायेण मुसलोक्तेरन्यभावना // अन्यापदेशो यथा'आसाइअमण्णाएण जेत्तिअं तेत्तिसं चित्र विहिणम् / ओरमसु वसह एपिंह रक्खिज्जइ गहवइच्छेत्तम् // 234 // ' [आस्वादितमज्ञातेन यावत्तावृदेव व्रीहीणाम् / उपरम वृषभेदानी रक्ष्यते गृहपतिक्षेत्रम् // ] अत्र परक्षेत्रस्य घस्मरवृषनिवारणापदेशेन चिरात्परिज्ञात उपपतिनिवार्यते, तदिदमन्यापदेशाख्यं भाविकम् // आसाइअ इत्यादि / “आस्वादितमज्ञातेन यावत्तावतैव बन्धय धृतिम् / उपरमख वृषभात्र रक्षयित्वा गृहपतिक्षेत्रम् // " इह हे वृषभ, गृहपतिक्षेत्रं रक्षयित्वा त्वमुपरमख क्रीडय / अज्ञातेन त्वया यावदेवास्खादितं तावतैव धृति बन्धय / अत्र वृषभनिवारणव्याजेनोपपतिनिवारणमन्यापदेशः॥ .. 1. 'जित्तिअम्' ग. घ. 2. 'वार्यते' क. ख.